________________
२२४
शिशुपालवधे निकरोऽमलात्मसु निर्मलमूर्तिषु तरुणीनां ये कपोलाः फलकानीव तेप्वभितो मुहुः प्रतिफलन्त्संक्रामन् सान्द्रतरं प्रचुरतरं विससार । दर्पणसंक्रमणादिवेति भावः । अत्रेन्दुरुचां कपोलासंक्रमेऽपि संक्रमोक्तेरसंबन्धे संबन्धोक्तिरूपातिशयोक्तिः ॥ उपगूढवेलमलघूमिभुजैः सरितामचुक्षुभदधीशमपि । रजनीकरः किमिव चित्रमदो यदुरागिणां गणमनङ्गलघुम् ॥३८॥
उपगूढेति ॥ रजनीकरश्चन्द्रः अलघुभिरूमिभिरेव भुजैरुपगूढा वेला येन तम् । सावष्टम्भमिति भावः । सरितामधीशं समुद्रमपि। स्वभावादक्षोभ्यमपीति भावः । अचुक्षुभत्क्षोभयति स्म । क्षुभ्यतेय॑न्ताल्लुङ् ‘णौ चङयुपधाया इस्वः' । अनङ्गेन लघु गतसारं यदव एव रागिणस्तेषां गणमचुक्षुभदित्यदः किमिव चित्रम् । न किंचिदित्यर्थः । अत्राक्षोभ्यमब्धि क्षोभयतश्चन्द्रस्य दण्डापूपिकन्यायादन्यक्षोभकत्वोक्तेरापत्तिरलंकारः॥ भवनोदरेषु परिमन्दतया शयितोऽलसः स्फटिकयष्टिरुचः। अवलम्ब्य जालकमुखोपगतानुदतिष्ठदिन्दुकिरणान्मदनः ॥३९॥
भवनेति ॥ परिमन्दतया एकाकित्वादसमर्थतया भवनोदरेषु गृहाभ्यन्तरेषु शयितः सुप्तोऽत एवालसो मदनो जालकमुखोपगतान्गवाक्षविवरप्रविष्टान् अत एव स्फटिकयष्टीनां रुगिव रुक् शोभा येषां तान्स्फटिकदण्डसंनिभानिन्दुकिरणानवलम्ब्यावष्टभ्योदतिष्टदुत्थितः । अत्रोद्बोधोत्थानयोरभेदविवक्षया 'उदोऽनूर्ध्वकर्मणि' इति परस्मैपदसिद्धिः । एतत्पदे चाभेदाध्यवसायमूलातिशयोक्त्या स्फटिकयष्टिरुच इत्युपमया च अवलम्ब्येत्यत्रावलम्ब्येवेत्युत्थानस्यावलम्बनहेतुकत्वोत्प्रेक्षा प्रत्याय्यत इत्येतासां संकरः ॥ अविभावितेषुविषयः प्रथमं मदनोऽपि नूनमभवत्तमसा। उदिते दिशः प्रकटयत्यमुना यदधर्मधानि धनुराचकृषे ॥ ४० ॥ __ अविभावितेष्विति ॥ मदनोऽपि प्रथमं चन्द्रोदयात्प्राक् तमसा अविभावितोऽलक्षितः इपुविषयो बाणलक्ष्यं येन सोऽभवत् । नूनमित्युत्प्रेक्षा । यद्यस्मादधर्मधाम्नि शीतकरे उदिते दिशः प्रकटयति सति अमुना मदनेन धनुराचकृषे आकृष्टम् । चन्द्र एव महानुद्दीपको मदनस्याभूदिति भावः ॥ युगपद्विकासमुदयाद्गमिते शशिनः शिलीमुखगणोऽलभत । द्रुतमेत्य पुष्पधनुषो धनुषः कुमुदेऽङ्गनामनसि चावसरम् ॥४१॥
युगपदिति ॥ पुष्पधनुः पुष्पधन्वा । 'वा संज्ञायाम्' इति विकल्पान्नानडादेशः । तस्य धनुः पुष्पचापं, पुष्पान्तरं च तस्माच्चलितो निःसृतः शिली शल्यं मुखं येषां ते शिलीमुखा बाणाः, अलयश्च । 'अलिबाणौ शिलीमुखौ' इत्यमरः । तेषां गणः शशिन उदयाद्विकासमौत्सुक्यं, उन्मीलनं च युगपदेकदा गमिते प्रापिते अङ्गनानां मनसि हृदये कुमुदे चावसरमवकाशमाश्वासमलभत । उभयत्र प्रवेशं