________________
नवमः सर्गः।
२२५ लब्धवानित्यर्थः । अत्र चन्द्रोदये कुमुदकामिनीहृदययोरपि प्रकृतयोः शिलीमुखप्रवेशलक्षणैकधर्मयोगादौपम्यात्तुल्ययोगिता एकधर्मत्वं चात्र शिलीमुखेति श्लिष्ट पदोपात्तयोरलिबाणयोरेकत्वाध्यवसायमूलातिशयोक्तिप्रसादादिति संकरः ॥ ककुभां मुखानि सहसोज्वलयन्दधदाकुलत्वमधिकं रतये । अदिदीपदिन्दुरपरो दहनः कुसुमेपुमत्रिनयनप्रभवः ॥ ४२ ॥
ककुभामिति ॥ ककुभां दिशां मुखानि सहसा झटित्युज्वलयन्नुद्भासयन् रतये सुरताय अधिकमाकुलत्वमौत्सुक्यं दधत् । यूनामिति शेषः । अन्यत्र रतये कामदेव्यै आकुलत्वं भयविह्वलत्वं दधत् । अत्रेरनिमुनेनयनप्रभवः । 'अत्रिनेत्रसमुद्भवः' इति पुराणात् । त्रिनयनप्रभवो न भवतीत्यत्रिनयनप्रभवः । अपरस्त्रिनयन प्रभवादन्यो दहनोऽग्निरिन्दुः । कुसुमेघु काममदिदीपद्दीपयति स्म । दीप्यतेों चङि 'भ्राज-' इत्यादिना विकल्पान्नोपधाहस्वः। अत्र प्रकृते कुसुमेषोर्दीपनं नाम प्रवर्धनं तस्य तत्र प्रतीयमानेन प्रज्वलनेनाभेदाध्यवसायात्तन्निमित्तमिन्दोर्दिङ्मुखो. द्वासनादिधर्मसंबन्धादपरोऽयं दहन इत्यपरशब्दप्रयोगसामर्थ्यादहनत्वोत्प्रेक्षा न रूपकमिति रहस्यम् । चन्द्रोदयात्कामो ववृधे इति तात्पर्यम् ॥ ___ एवं चन्द्रोदयाख्यमुद्दीपनविभावनमुक्त्वा तत्फलमाह-- इति निश्चितप्रियतमागतयः सितदीधितावुदयवत्यबलाः। प्रतिकर्म कर्तुमुपचक्रमिरे समये हि सर्वमुपकारि कृतम् ॥ ४३ ।।
इतीति ॥ इत्येवं सितदीधितावुदयवति अबलाः स्त्रियो निश्चिता प्रियतमानामागतिरागमनं याभिस्ताः सत्यः प्रतिकर्म प्रसाधनं कर्तुमुपचक्रमिरे । 'प्रतिकर्म प्रसाधनम्' इत्यमरः । चन्द्रोदयात्प्रियागमनं निश्चित्य अलंकर्तुं प्रक्रान्ता इत्यर्थः । तथा हि-समये कार्यकाले कृतमनुष्टितं सर्वं कर्म उपकार्युपकारकं भवति । अन्यथा विफलमेवेति भावः । अतो निश्चित्य प्रवृत्तिरासां युक्तेत्यर्थान्तरन्यासः ॥ __अथ प्रसाधनमेव प्रपञ्चयतिसममेकमेव दधतुः सुतनोरुरुहारभूषणमुरोजतटो। घटते हि संहततया जनितामिदमेव निर्विवरतां दधतोः ॥४४॥
सममिति ॥ सुतनोः स्त्रिया उरोजतटौ उरु श्लाध्यमेकमेव भूषणं सममवैषम्येण दधतुः । संहततया संश्लिष्टतया, ऐकमत्येन च जनितां निर्विवरतां निरन्तरालता, नीरन्ध्रत्वं च दधतोरिदं शमभागित्वमेव घटते । अन्तर्भेदान्तराया हि विषयिणां विपयोपभोगाः कुचयोस्तदभावात्ममशोभार्थं हारधारणं युक्तमिति भावः ॥ कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महति । रशनाकलापकगुणेन वधूर्मकरध्वजद्विरदमाकलयत् ॥ ४५ ॥
कदलीति ॥ वधूः कदलीप्रकाण्डरुचिरे रम्भास्तम्भसुन्दरे । उरुरेव तरुबन्धनवृक्षो यस्मिन् । अत्र कदलीकाण्डस्य सौन्दर्यमानोपमानत्वान्न बन्धनयोग्यवृक्ष