________________
२२६
शिशुपालवधे
वाचिना तरुशब्देन पुनरुक्तिः । महति जघनस्थल्येव परिसरः प्रदेशस्तस्मिन्रशनाकलापक एव गुणस्तेन मकरध्वजो मदनः स एव द्विरदस्तमाकलयदबध्नात् । रशनाबन्धेन जघनमतीव मदनोद्दीपकमासीदित्यर्थः । समस्तवस्तुवर्ति सावयवरूपकम् ॥ अधरेष्वलक्तकरसः सुदृशां विशदं कपोलभुवि लोधरजः । नवमञ्जनं नयनपङ्कजयोविभिदे न शङ्कनिहितात्पयसः॥४६॥ __ अधरेष्विति ॥ सुदृशामधरेष्वोष्टेषु अलक्तकरसो लाक्षाद्रवः तथा कपोलभुवि गण्डस्थले विशदं शुभ्रं लोध्ररजः तथा नयनपङ्कजयोनवमञ्जनं च शङ्खनिहितात्पयसः क्षीरान्न बिभिदे भिन्नं नाभूत् । कर्मकर्तरि लिद । अधरादिनिहितं लाक्षारागादिकं शङ्खनिहितक्षीरवत्सावादाश्रयतोऽभेदेन दुर्ग्रहमभूदित्यर्थः । अत्र यदधरालक्तकरसादिकं तच्छङ्घनिहितं क्षीरमित्येकवाक्यतया वाक्यार्थे वाक्यार्थसमारोपादसंभवद्वस्तुसंबन्धो वाक्यार्थनिष्ठो निदर्शनालंकारः । तेनाधरालक्तकादीनां गुणत एकत्वरूपः सामान्यालंकारो गम्यते । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता' इति लक्षणात् ॥ स्फुरदुज्वलाधरदलैर्विलसद्दशनांशुकेशरभरैः परितः । धृतमुग्धगण्डफलकैर्विवभुर्विकसद्भिरास्सकमलैः प्रमदाः ॥४७॥
स्फुरदिति ॥ प्रमदाः स्त्रियः स्फुरन्तश्चलन्तः उज्वलाश्चामला अधरा ओष्टा एव दलानि पत्राणि येषां तैः परितो विलसन्तो दशनांशवो दन्तकान्तय एव केशरभराः किंजल्कपुञ्जा येषां तैः । तानि मुग्धानि गण्डा एव फलकानि कर्णिका येषां तैर्विकसद्भिरास्यकमलैर्विबभुः । अजास्यकमलैरिति रूपणात्प्रमदा एव सरस्य इति सिद्धेरेकदेशविवर्ति सावयवरूपकम् । 'आस्यकुमुदैः' इति पाठे कुमुदस्य मुखोपमानत्वं कविसमयविरुद्धं ज्ञेयम् ॥ भजते विदेशमधिकेन जितस्तदनुप्रवेशमथ वा कुशलः। मुखमिन्दुरुज्वलकपोलमतः प्रतिमाच्छलेन सुदृशामविशत् ॥४८॥
भजत इति ॥ अधिकेन प्रबलेन जितो विदेशं देशान्तरं भजते, अथवा कुशल: कार्यचतुरः तदनुप्रवेशं भजते। तमेव शरणतया प्रविश्य जीवतीत्यर्थः। अतो हेतोरिन्दुरुज्वलौ कपोलौ यस्य तदिति मुखस्य बिम्बग्रहणयोग्यतोक्तेः पदार्थहेतुकं काव्यलिङ्गम् । सुदृशां मुखं प्रतिमाच्छलेन प्रतिबिम्बव्याजेनाविशत्प्रविष्टः । साक्षाचन्द्र एवायं न प्रतिमाचन्द्र इति छलशब्दात्प्रतीतेः छलशब्देनासत्यत्वप्रतिपादनरूपोऽपह्नवालंकारः पूर्वोक्तकाव्यलिङ्गसापेक्ष इति संकरः । तेन कपोलयोर्लोकोत्तरं लावण्यं दर्पणौपम्यं च व्यज्यत इत्यलंकारेणालंकारध्वनिः ॥ ध्रुवमागताः प्रतिहतिं कठिने मदनेषवः कुचतटे महति । इतराङ्गवन्न यदिदं गरिमग्लपितावलग्नमगमत्तनुताम् ॥ ४९ ॥