________________
नवमः सर्गः।
२२७
ध्रुवमिति ॥ मदनेषवः कामशराः महति कठिने कुचतटे प्रतिहतिं प्रतिघातमागताः प्राप्ता एव । यद्यस्मादरिम्णा निजभारेण ग्लपितं कर्शितमवलग्नं मध्यं येन तदिदं कुचतटमितराङ्गेन तुल्यमितराङ्गवत् । 'तेन तुल्यम्-' इति वतिप्रत्ययः । तनुतां कार्य नागमन्नाभजत् । पुषादिसूत्रेण च्लेरङादेशः। तदा सदनेपुपातात्कुचातिरिक्तमङ्गनानामङ्गं कृशमासीदित्यर्थः ॥ न मनोरमास्वपि विशेषविदां निरचेष्ट योग्यमिदमेतदिति । गृहमेष्यति प्रियतमे सुदृशां वसनाङ्गरागसुमनःसु मनः ॥ ५० ॥
न मनोरमास्विति ॥ प्रियतमे गृहभेष्यति आगमिप्यति सति विशेषविदामपि सुदृशां सम्यग्दर्शनीयानां स्त्रीणां मनः कर्तृ मनोरमास्वपि वसनाङ्गरागसुमनःसु बस्वगन्धमाल्येपु इदमेतदिति इदं पुरोवर्ति वस्त्वेतदिति वसनमिति, अनुलेपनमिति, सुमनस इति, विशेषाकारेण तथा योग्यमस्माकं धारणाहमिति च न निरचेष्ट न निरधारयत् । प्रियागमनहर्षातिरेकादितिकर्तव्यतामूढमभूदित्यर्थः । चिनोतेलुङि तडि च्लेः सिच् 'सार्वधातुकार्धधातुकयोः' इति गुणः । हर्पोऽत्र संचारिभावः । निश्चयसंबन्धेऽप्यसंबन्धोतरतिशयोक्तिः सुमनः सुमन इति यमकविशेषश्चेति संसृष्टिः ॥ वपुरन्वलिप्त परिरम्भसुखव्यवधानमीरुकतया न वधः। क्षममस्य बाहमिदमेव हि यत्प्रियसंगमेष्वनवलेपमदः ॥५१॥
वपुरिति ॥ वधूः स्त्री परिरम्भसुखव्यवधानभीरुकतया आलिङ्गनसुखविच्छेदभीरुत्वेन । 'क्रुकन्नपि वक्तव्यः' इति क्रुकन्प्रत्ययः । वपुर्नान्वलिप्त नानुलिसवती । अङ्गरागमात्रव्यवधानमपि न सहत इत्यर्थः । लिम्पतेः कर्तरि लुडि सङ् । तथा हि अदो वपुः प्रियसंगमेषु अनवलेपमचन्दनमगवं चेति यत् ।
अवलेपस्तु गर्वे स्याल्लेपने भूपणेऽपि च' इति विश्वः । इदमानवलेपनत्वमेवास्य वपुपो बाढं भृशं क्षमं युक्तम् । लेपानुप्राणितोऽयमर्थान्तरन्यासः ॥ निजपाणिपल्लवतलम्खलनादमिनासिकाविवरमुत्पतितैः। अपरा परीक्ष्य शनमुमुद्दे मुखवासमास्यकमलश्वसनैः ॥ ५२ ।।
निजेति ॥ अपरा खी निजपाणिपल्लनतलस्य स्खलनाभिघातादभिनासिकाविवरं नासारन्ध्र प्रति उत्पतितैरास्यकमलस्य श्वसनैमुखमारुतैर्मुखवासं मुखबासनां शनकैः परीक्ष्य मुमुदे । इयं वासकसज्जिका नायिका ॥ विधृते दिवा सवयसा च पुरः परिपूर्णमण्डलविकाशभृति । हिमधाग्नि दर्पणतले च मुहुः स्वमुखश्रियं मृगशो ददृशुः॥५३।।
विधृत इति ॥ दिवा आकाशेन सव्यसा वयस्यथा च पुरोऽग्रे विटते विधारिते परिपूर्णमण्डलविकाशं बिम्बशोभां विभीति तमृत्तस्मिन्हिमधाम्नि चन्द्रे दर्पणतले च मृगदृशः स्त्रियः स्वमुखश्रियम् । पूर्वत्रोपमानभूतामुत्तरत्रोपमेयभूतां