________________
२२८
शिशुपालवधे चेत्यर्थः । मुहुर्ददृशुः । औपम्यपरीक्षार्थमिति भावः । अत्रान्यश्रियोऽन्यत्रासंभवाचन्द्रे तत्सदृशीमिति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धा निदर्शना । तथा चन्द्रदर्पणयोद्युसवयसोश्च यथासंख्यमन्वयाद्यथासंख्यालंकारश्च । तदुभयापेक्षया चन्द्रदर्शनयोमुखश्रीदर्शनस्थानत्वेन प्रस्तुतयोरेवौपम्यस्य गम्यत्वात्तुल्ययोगितेति संकरः ॥ अधिजानु बाहुमुपधाय नमत्करपल्लवार्पितकपोलतलम् । उदकण्ठि कण्ठपरिवर्तिकलस्वरशून्यगानपरयापरया ॥ ५४॥
अधिजान्विति ॥ नमति कपोलार्पणाय प्रवीभवति करपल्लवे अर्पितं निहितं कपोलतलं गण्डस्थलं यस्य तं बाहुमधिजानु जानुनि । विभक्त्यर्थेऽव्ययीभावः । उपधाय निधाय । कूपरेण जानुमवष्टभ्येत्यर्थः । कण्ठे परिवर्तत इति कण्ठपरिवर्ति । न तु मुखोच्चारित इत्यर्थः । कलमव्यक्तमधुरं स्वरशून्यं तारध्वनिहीनम् , षड्जादिस्वराभिव्यक्तिहीनं वा यद्गानं तत्परया तदासक्तया । मन्दकण्ठेनैव गायन्त्येत्यर्थः। कालक्षेपार्थमिति भावः । अयं चोत्कण्ठानुभावः । अपरया स्त्रिया उदकण्ठि उत्कण्ठितम् । प्रियसंगमायोत्सुकया स्थितमित्यर्थः । भावे लुङि चिणो लुक् । अत्र कालक्षेपासहिष्णुत्वलक्षणमौत्सुक्यं संचारि तन्निबन्धनात्प्रेयोलंकारः । परयापरयेति यमकविशेषसंसृष्टिः। नायिका विरहोत्कण्ठिता । 'चिरं पत्युरनालोके विरहोत्कण्ठितोन्मनाः' इति लक्षणात् ।। प्रणयप्रकाशनविदो मधुराः सुतरामभीष्टजनचित्तहतः । प्रजिघाय कान्तमनु मुग्धतरस्तरुणीजनो दृश इवाथ सखीः ।।५५।।
प्रणयेति ॥ अथ प्रसाधनानन्तरं मुग्धतरोऽत्यन्तकाममोहितस्तरुणीजनः प्रणयप्रकाशनविदः । अनुरागव्यञ्जनचतुरा इत्यर्थः । मधुरा मधुरभाषिणीः, अन्यत्र रन्याकृतीः सुतरामभीष्टजनस्य चित्तहृतो मनोहारिणीः सखीदृश इव कान्तमनु प्रियजनं प्रति प्रजिघाय प्रेषितवान् । हिनोतेर्लिद । इवेन सह समासवचनादृश इवेत्युपमासमासः । तया सखीनामासत्त्यन्तरङ्गत्वकार्यदर्शित्वादिव्यञ्जनादलंकारेण वस्तुध्वनिः ॥
तथा काचिन्नायिका दूतीं वाचिकमनुशास्तिन च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि । निपुणं तथैनमुपगम्य वदेरभिदूति काचिदिति संदिदिशे ।। ५६ ।।
न चेति ॥ स मे दयितो यथा मयि करुणां कुरुते यथा लघुतामल्पतां च नावगच्छति न मन्यते । एनं दयितमुपगम्य प्राप्य तथा तेन प्रकारेण निपुणं बदेः । विध्यर्थे प्रार्थने वा लिङ् । इतीत्थं काचिन्नायिका अभिदूति दूतीमभि । 'लक्षणेनाभिप्रती-' इत्यव्यवीभावे नपुंसकहस्वत्वम् । संदिदिशे संदिष्टवती । कर्तरि लिट् । स्वरितेत्त्वादात्मनेपदम् । नायिका तु कलहान्तरिता । 'कोपात्कान्तं पराणुच पश्चात्तापसमन्विता' इति लक्षणात् ॥