________________
नवमः सर्गः।
२२९
दयिताय मानपरयाऽपरया त्वरितं ययावगदितापि सखी। किमु चोदिताः प्रियहितार्थकृतः कृतिनो भवन्ति सुहृदः सुहृदां५७
दयितायेति ॥ मानपरया अभिमानवत्या अत एवापरया नायिकया अग. दिता दयितमानयेत्यनुक्ता सखी दयिताय दयितमानेतुम् । 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' इति चतुर्थी । त्वरितं शीघ्रं ययौ। अन्यथा मरणशङ्केति भावः । तथाहि-सुष्टु शोभनं हृदयं येषां ते सुहृदो मित्राणि । 'सुहृदुईदौ मित्रामित्रयोः, इति निपातः । चोदिताः प्रेरिताः सन्तः सुहृदां प्रियो हृद्यः हितः श्रेयस्करश्च योऽर्थतं कुर्वन्तीति प्रियहितार्थकृतः । कृतमेषामस्तीति कृतिनः कृतकृत्या भवन्ति किमु । किंतु चोदनां विनैवेति भावः । अर्थान्तरन्यासः । नायिका च पूर्ववत् ।।
अथ काचित्कलहान्तरिता कान्तं प्रति त्रिभिर्दूतीं संदिशतिप्रतिभिद्य कान्तमपराधकृतं यदि तावदस्य पुनरेव मया । क्रियतेऽनुवृत्तिरुचितैव ततः कलयेदमानमनसं सखि माम् ॥५८॥
प्रतिभिद्येत्यादि ॥ अपराधकृतमागस्कारिणं कान्तं प्रतिभिद्य निराकृत्य पुनमयैवास्यानुवृत्तिरनुसरणं क्रियते यदि तावदुचितैव । पतिव्रतानां प्राणेश्वरचित्तानुवृत्तेधर्मत्वादिति भावः। किंतु हे सखि, ततोऽनुवृत्तेर्माममानमनसमभिमानहीनचित्तां कलयेन्मन्येत ॥ __तलाघवाय विगृह्मैव स्थीयतां तत्राहअवधीर्य धैर्यकलिता दयितं विदधे विरोधमथ तेन सह । तव गोप्यते किमिव कर्तुमिदं न सहामि साहसमसाहसिकी ॥१९॥ __ अवधीर्येति ॥ धैर्यकलिता कलितधैर्या सती । 'वाहिताझ्यादिषु' इति निष्ठायाः परनिपातः। दयितमवधीर्य तिरस्कृत्य तेन सह विरोधं विदधे करोमीति चेत् । दधातेः कर्तरि लट् । हे सखि, तव किमिव गोप्यते निगृह्यते । न किंचि. दित्यर्थः । किंतु कथ्यत एवेति कथयति । सहसा बलेन वर्तत इति साहसिकी। 'ओजःसहोम्भसा वर्तते' इति ठक् । सा न भवतीत्यसाहसिकी। अहमिति शेषः । इदं साहसं विरोधं विरोधाचरणरूपं साहसकृत्यं कर्तुम् । 'शकष-' इत्यादिना तुमुन् । सहत इति सहा समर्था । पचाद्यच् । नास्मि । अत्रासाहसिकत्वस्य विशेषणगत्या साहसासहनहेतुत्वोक्तेः पदार्थहेतुकं काव्यलिङ्गमलंकारः ॥
तर्हि किमत्र कार्यमत आहतदुपेत्य मा स्म तमुपालभथाः किल दोषमस्य न हि विद्म वयम् । इति संप्रधार्य रमणाय वधूर्विहितागसेपि विससर्ज सखीम् ॥६॥
तदिति ॥ तत्तस्मात्तं वल्लभमुपेत्य मा सोपालभथाः नोपालभस्व । तद्दोष न गणयरित्यर्थः । 'मोत्तरे लङ् च' इत्युपाङ्पूर्वाल्लभेर्लङ् 'न माङयोगे' इत्यदप्रतिषेधः । ननु सापराधः कथं नोपालभ्यस्तत्राह-वयमस्य दोषमपराधं न विद्म
शिशु० २०