________________
२३०
शिशुपालवधे
किल । अजानाना इव तिष्टामीत्यर्थः । कार्यार्थिनः कुतो गर्व इति भावः । 'विदो लटो वा' इति णलाद्यादेशः । इति संप्रधार्य निश्चित्य वधूर्नायिका विहितागसे कृतापराधायापि रमणाय प्रेयसे । क्रियाग्रहणाचतुर्थी । सखी विससर्ज प्रजिघाय। विरहासहिष्णुतयेति भावः । एषा कलहान्तरिता प्रौढा च ॥ जनु संदिशेति सुदृशोदितया त्रपया न किंचन किलाभिदधे । निजमैक्षि मन्दमनिशं निशितैः ऋशितं शरीरमशरीरशरैः ॥६१ ॥
नन्विति ॥ ननु संदिश संदेशं बृहीत्युदितया दूत्या कथितया सदृशया नायिकया का बृपया हेतुना किंचन नाभिदधे किल नाभिहितं खलु । किंतु निशितैरशरीरशरैरनङ्गबाणैरनिशं ऋशितं कृशीकृतम् । कृशशब्दात् 'तत्करोति' इति ण्यन्तात्कर्मणि क्तः। णाविष्ठवगावे 'र ऋतो हलादेलघोः' इत्युकारस्य रेफादेशः। निजं शरीरं मन्दमैक्षि ईक्षितम् । एषापि कलहान्तरिता मध्यमा च । त्रपया निजहृदयानभिधानानिजशरीरनिरीक्षणेन स्वावस्थातिवेदनाञ्च तुल्यलजास्मरत्वा. वगमादिति । इयं च पञ्चमी कार्याख्या कामावस्था । 'दृड्मनःसङ्गसंकल्पाजागरः कृशताऽरतिः । ह्रीत्यागोन्मादमूर्ध्वान्ता इत्यनङ्गदशा दश ॥' इति ।
इत्थं नायिकाभिरुपदिष्टा दूत्यः किमकुर्वन्नित्यत आहब्रुवते स दूत्य उपसृत्य नरान्नरवत्प्रगल्भमतिगर्भगिरः । सुहृदर्थमीहितमजिह्मधियां प्रकृतेविराजति विरुद्धमपि ।। ६२ ।।
वृवत इति ॥ प्रगल्भा पृष्टाः गतिगर्भा प्रतिभासाराश्च गिरो यासां ता दूत्यो लरान्पुरुषानुपसृत्य नरवत् नरैः पुंभिस्तुल्यम् । 'तेन तुल्यं क्रिया चेद्वतिः' इति वतिप्रत्ययः । ब्रुवते स्म । न चैतावता वैयात्यं दूषणमित्यर्थान्तरन्यासेनाह-सुहृदर्थमिति । तथा हि । अजिह्मधियामकुटिलबुद्धीनां संबन्धि सुहृदे सुहृदर्थम् । 'अर्धेन सह नित्यसमासः सर्वलिङ्गता चेति वक्तव्यम्'। ईहितं चेष्टित प्रकृतेविरुद्धमपि स्वभावविपरीतमपि विराजति शोभते । तस्मान्न धाष्ट्ये दोष इत्यर्थः॥ ___ अथ काचि डूती कंचित्प्रियं प्रति सप्तभिः प्रार्थयते-- मम रूपकीर्तिमहरद्भुवि यस्तदनुप्रसक्तहृदयेयमिति । त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः॥६३॥
ममेत्यादि ॥ यो भुवि मम रूपकीर्ति सौन्दर्य प्रथममहरन् इयं स्वस्निया तदनुप्रविष्टहृदया तस्मिन्नासक्तचित्तेति अतो हेतोस्त्वयि मत्सरादिव मदनो निरस्तदयो निष्कृपः सन् तां त्वप्रियां सुतरां क्षिणोति क्षपयति खलु । एतेन कार्यावस्थोक्ता । अत्र साक्षात्प्रतिपक्षभूतनायकपीडासमर्थस्य मदनस्य तदीयनायिकापीडनोक्त्या प्रत्यनीकालंकारः । स च त्वयि मत्सरादिवेति हेतून्प्रेक्षोत्थापित इति संकरः । 'बलिनः प्रतिपक्षस्य प्रतीकारे सुदुष्करे। यन्तदीयतिरस्कारः प्रत्यनीक तदुच्यते ॥' इति लक्षणात् ।