________________
नवमः सर्गः ।
तव सा कथासु परिघट्ट्यति श्रवणं यदङ्गुलिमुखेन मुहुः । घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया ॥ ६४ ॥
२३१
तवेति ॥ सा त्वत्प्रिया तव कथासु गुणकीर्तनेषु मुहुरङ्गुलिमुखेनाङ्गुल्यग्रेणश्रवणं श्रोत्रविवरं परिघट्टयति स्फालयतीति यत् । यदृच्छयेति शेषः । तेन परिघट्टनेन भवगुणपूगपूरितं श्रवणं अतृप्ततया तावद्गुणग्रहणेना संतुष्टतया घनतां नयति । बहुतण्डुलमानार्थ प्रस्थादिवद्भूयो गुणप्रवेशाय श्लेषयतीत्यर्थः । ध्रुव मित्युत्प्रेक्षायाम् । अत्र कण्डूविनोदनार्थं श्रोत्रघट्टने घनतानयनमुत्प्रेक्ष्यते ॥ उपताप्यमानमलघूष्णिमभिः श्वसितैः सितेतरसरोजदृशः । द्रवतां न नेतुमधरं क्षमते नवनागवल्लिदल रागरसः ॥ ६५ ॥
उपेति ॥ अलघुरन्तः संतापोपाधिक उष्णिमा उष्णत्वं येषां तैः श्वसितैर्निःश्वासैरुपताप्यमानं सितेतरसरोजदृशो नीलोत्पलाक्ष्या अधरं नवनागवल्लिदलाना ताम्बूलदलानां रागरसो रञ्जनद्रवो द्रवतामार्द्रतां नेतुं न क्षमते न शक्नोति । एतेन ज्वरावस्थोक्ता । अत्र द्रवत्वसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः ॥ दधति स्फुटं रतिपतेरिपवः शिततां यदुत्पलपलाशदृशः । हृदयं निरन्तरबृहत्कठिनस्तन मण्डलावरणमप्यभिदन् ॥ ६६ ॥
दधतीति ॥ रतिपतेरिषवः शिततां नैशित्यं दधति । स्फुटमित्युत्प्रेक्षायाम् । यद्यस्मान्निरन्तरं नीरन्धं बृहत्कठिनं च यत्स्तनमण्डलं तदेवावरणं वर्म यस्य तत्तदपि उत्पलपलाश उत्पलदलाक्ष्याः हृदयमभिदन्भिन्दति स्म । भिदेर्लुङ 'इरितो वा' इति चलेरङादेशः । सावरणमपि भिन्नमिति विरोधोत्थापितेयं स्मरशरनैशित्योत्प्रेक्षा । तया च रन्ध्रान्वेषिणा कामेन निपीड्यमानायास्तस्यास्त्वद्विरहो जीवितसंशयमापादयतीति वस्तु द्योत्यते ॥
कुसुमादपि स्मितदृशः सुतरां सुकुमारमङ्गमिति नापरथा । अनिशं निजैरकरुणः करुणं कुसुमेषुरुत्तपति यद्विशिखैः ॥ ६७ ॥
कुसुमादिति ॥ स्मितदृशः स्मेराक्ष्या अङ्गं कुसुमादपि सुतरां सुकुमारं कोम - मितीदमपरथा अन्यथा न । किंतु सत्यमेवेत्यर्थः । यद्यस्मात्कुसुमेषुरकरुणो निष्कृपः सन् निजैर्विशिखैर्बाणै: । 'पृषत्कबाणविशिखाः' इत्यमरः । कुसुमैरेवेत्यर्थः । कष्णं दीनं यथा तथा अनिशं नित्यमुत्तपति । तापयतीत्यर्थः । तपतिरर्यं भौवादिकः र्मकः । कुसुमाधिकसौकुमार्याभावे कुसुमैः पीड्यत इति कुसुमाधिकसौकुमत्प्रेक्षा नापरथेति व्यञ्जकप्रयोगाद्वाच्या ॥
गद्य
विषतां निष तमपक्रियया समुपैति सर्वमिति सत्यमदः । अमृतस्रुतोऽपि विरहाद्भवतो यदमूं दहन्ति हिमरश्मिरुचः ||६८|| विषतामिति ॥ अपक्रियया विपरीतप्रयोगेण निषेवितमुपयुक्तं सर्वम् ।