________________
२३२
शिशुपालवधे
अमृतमपीति भावः । विषतां विषवदहितत्वं समुपैति इत्यद इदं विषत्वं सत्यं ध्रुवम् । यद्यस्मादमृततोऽपि । स्रवतेः विपि तुक् । हिमरश्मिरुचश्चन्द्रपादाः भवतो विरहाद्धेतोस्त्वया विना सेवनादित्यर्थः । अमूं त्वत्प्रियां दहन्ति । याः पूर्व त्वया सह सेवनादालादयन्निति भावः। एतेन विषयद्वेषरूपा रत्यवस्थोक्ता । अत्र विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥
कुलकम् । उदितं प्रियां प्रति सहादमिति श्रदधीयत प्रियतमेन वचः । विदितेऽगिते हि पुर एव जने सपदीरिताः खलु लगन्ति गिरः॥६९॥
उदितमिति ॥ प्रियां प्रति प्रियामुद्दिश्य हृदयस्येदं हादं प्रेम । 'प्रेमा ना प्रियता हार्द प्रेम स्नेहः' इत्यमरः । 'तस्येदम्' इत्यण्प्रत्ययः । 'हृदयस्य हृल्लेखयदण्लासेषु' इति हृदयस्य हृदादेशः । सहाद सस्नेहमित्युदितम् । वदेः कर्मणि तः 'वचिस्वपि-' इत्यादिना संप्रसारणम् । वचो दूतीवाक्यं प्रियतमेन श्रदधी. यत विश्वसितम् । दधातेः कर्मणि लङ् । श्रदन्तरोरुपसर्गवद्वचनाच्छ्रच्छब्दस्य प्राक्प्रयोगः । हि यस्मात्पुरः पूर्वमेव विदितेङ्गिते विदितपराभिप्राये जने । इङ्गितं हृद्गतो भावः । सज्जने समुदीरिता गिरः सपदि लगन्ति सन्जन्ति खलु । स्वयं प्रियाहृदयवेदित्वात् स्वबुद्धेः संवादेन दूतीकथितं प्रियाविरहदुःखं विशश्वासेत्यर्थः । अर्थान्तरन्यासः। एषा कलहान्तरिता । अत एव मानाख्यो विप्रलम्भः शृङ्गारः । 'पूर्वानुरागमानाख्यप्रवासकरुणात्मना । विप्रलम्भाभिधानोऽयं शृङ्गारः स्थाच्चतुर्विधः ॥' इति चतुर्थोऽयमुक्तः ॥ दयिताहृतस्य युवभिर्मनसः परिमूढतामिव गतैः प्रथमम् । उदिते ततः सपदि लब्धपदैः क्षणदाकरेऽनुपदिभिः प्रयये ॥७०॥
दयितेति ॥ प्रथम चन्द्रोदयात्प्राक्परिमूढतां निजमनोपहर्तृमार्गानभिज्ञतां गतैः ततः पश्चात्क्षणदाकरे चन्द्रे उदिते सति सपदि लब्धपदैर्दष्टचोरपदचिह्नः दयिताभिर्हतस्याकृष्टस्यापहृतस्य च मनसोऽनुपदिभिरन्वेष्टुभिः । अन्विष्यद्भिरिवेत्यर्थः । अत एव गम्योत्प्रेक्षा प्रागवलम्बितधैर्यत्यागनिमित्ता। 'अनुपद्यन्वेष्टा' इति निपातः। 'अन्वेष्टानुपदी प्रोक्ता' इति वैजयन्ती। युवभिः प्रयये प्रयातम् । याते वे लिद । अत्रोक्तपदान्वेषणोत्प्रेक्षया यूना चोरग्राहिरूपकं प्रगम्यत इत्यलंकारेणालंकारध्वनिः ॥ ___ अथ यूनां गृहप्रायनन्तरं वृत्तान्तं वर्णयति- देव निपपात संभ्रमभृतः श्रवणादसितभ्रवः प्रणदितारिणम् । दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहम्म्य ७१ ॥ निपपातेति ॥ संभ्रमभृतः प्रत्युत्थानसंभ्रमिण्याः असितभ्रुवोशनायाः प्रण१ 'माख्याय' इति पाठः.