________________
नवमः सर्गः।
२३३ दितालिकुलं गुञ्जदलिपुञ्जम् । 'उपसर्गादसमासेऽपि णोपदेशस्य' इति णत्वम् । वारिरुहं श्रवणोत्पलं दयितावलोकेन विकसतो विस्तारं गच्छतो नयनस्य प्रसरेण प्रसारण प्रणुन्नमिव । पूर्ववण्णत्वम्। निपपात । तथा संभ्रान्तमित्यर्थः। अत्र संभ्रमहेतुकस्य कर्णोत्पलपातस्य नयनप्रसारहेतुकत्वमुत्प्रेक्ष्यते । एषा च हृष्टा ॥ उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलिताम् । रभसोत्थितामुपगतः सहसा परिरभ्य कश्चन वधूमरुधत् ॥ ७२ ।।
उपनेतुमिति ॥ सहसोपगतो हठादागतः कश्चन युवा अत एव रसभेनोत्थितामत एवोन्नतिमता कुचयोर्युगेन करणेन दिवमाकाशमुपनेतुमिवोर्ध्वमुत्सेप्लुमिवेति फलोत्प्रेक्षा उत्थाननिमित्तौन्नत्यगुणनिमित्ता । तरसा बलेनाकलितां व्याक्षिप्तां वधू प्रियां परिरभ्याश्लिष्यारुधबुद्धवानुपवेशितवान् । ऊोत्क्षेपानिवारितवानिति चार्थः । रुधेलुङि 'इरितो वा' इति विकल्पात् च्लेरङादेशः। एषा हृष्टा रोमाञ्चिताद्यनुभाववती च ॥ अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता । मुकुरेण वेपथुभृतोऽतिभरात्कथमप्यपाति न वधूकरतः ॥७३॥
अनुदेहमिति ॥ अनुदेहं देहस्य पश्चात् । 'अव्ययं विभक्ति-' इत्यादिना पश्चादर्थेऽव्ययीभावः । आगतवतः परिणायकस्य परिणेतुः । वोदुरित्यर्थः । नयतेवुल प्रत्ययः । 'उपसर्गादसमासेऽपि-' इति णत्वम् । गुरुं पूज्यां, भारवती च प्रतिमां प्रतिबिम्बमुद्वहता । पश्चास्थितस्यापि तदाभिमुख्यादिति भावः । मुकुरेण दर्पणेन का । 'दर्पणे मुकुरादशौं' इत्यमरः । वेपथुभृतो नवोढतया भयशृङ्गाराभ्यां कम्पमानात् । अति अतिमात्रो भरो यस्य तस्मादतिभरात् । प्रतिविम्बगुरुमुकुरधारणादिति भावः । वध्वा नवोढायाः करतः पाणितलात् । पञ्चम्यास्तसिल । कथमपि नापाति न पतितम् । महता प्रयत्नेन धारित इत्यर्थः । भावे लुङ् । एपा च मुग्धा । अत्र वधूकरस्य भारासंबन्धेऽपि संबन्धोतरतिशयोक्तिः गुरुमिति श्लेषोत्थापितेति संकरः ॥ अवनम्य वक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता । दयितेन तत्क्षणचलद्रशनाकलकिंकिणीरवमुदासि वधूः ॥ ७४ ।।
अवनम्येति ॥ अवनम्य गाढमुपगूढवता आश्लिष्टवता, अत एव वक्षसि निमग्नकुचद्वितयेन दयितेन तत्क्षणे चलन्नुद्गच्छन्रशनाया कलकिंकिणीरवो यस्मिन्कर्मणि तद्यथा तथा वधूरङ्गना उदासि उत्क्षिप्ता । अस्यतेः कर्मणि लुङ् । एषा च हृष्टा रोमाञ्चाद्यनुभाववती च । स्वभावालंकारः ॥ कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया । क्षणदृष्टहाटकशिलासदृशस्फुरदृरुभित्ति वसनं ववसे ॥ ७५ ॥