________________
२३४
शिशुपालवधे
कररुद्धेति ॥ दयितोपगतौ प्रियागमने सति अत एव त्वरया विरहितं स्यक्तमासनं यया तया । उस्थितयेत्यर्थः । कयाचिदिति शेषः । अत एव गलितं स्वस्तमत एव कररुद्धनीवि करगृहीतबन्धं वसनं क्षणं दृष्टा हाटकशिलाल्पदृशी हेमशिलाप्रतिमा स्फुरन्ती अरुभित्तिरूरुदेशो यस्मिन्कर्मणि तद्यथा तथा । हिरण्यं हेम हाटकम्' इत्यमरः । ववले आच्छादितम् । वसेराच्छादनार्धाकर्मणि लिद । अरु भित्तिरिवेत्युपमितसमासः । अत्रोपमयोः संसृष्टिः ॥ पिदधानमन्वगुपगम्य दृशौ बुवते जनाय वद कोऽयमिति । अभिधातुमध्यवससौ न गिरा पुलकैः प्रियं नववधूय॑गदत् ।।७६॥
पिदधानमिति ॥ नववधूनवोढा अन्वक्पश्चादुपगम्य दृशौ पिदधानं छादयन्तं प्रियं दृष्टिच्छादकः कः वद इति ब्रुवते पृच्छते जनाय गिरा वाचा अभिधातुं साध्यवससौ नोत्सेहे। लजयेति भावः । अध्यवपूर्वात्स्यतेः कर्तरि लिट् । किंतु पुलकैय॑गदत् । अत्र प्रियज्ञानस्यार्थस्य लजया असंलक्षितस्य पुलकैः प्रकाशनासूक्ष्मालंकारः । 'असंलक्षितसूक्ष्मार्थप्रकाशः सूक्ष्म उच्यते' इति लक्षणात् ॥ उदितोरुमादमतिवेपथुमत्सुदृशोऽभिभ विधुरं त्रपया । वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूहमपि बाढमभूत् ।। ७७ ।।
उदितेति ॥ अभिभत भर्नुसमक्षम् । 'लक्षणेनाभिप्रती आभिमुल्ये' इत्यव्ययीभावः । उदित उत्पन्न उरुसादः उर्वोनिश्चेष्टता यस्य तत् अतिवेरधुमदतिकन्यवत् । एतेन विशेषणद्वयेन प्रत्युत्थानालिङ्गनविरोधेन स्तम्भवेपधू सात्विकावुक्तौ । अपया विधुरं विलक्षम् । एतेन लजासंचारिणा प्रियवाकुण्ठत्वमुक्तम् । एवं प्रतिपत्तिमूढमपि इतिकर्तव्यतामूढमपि सुदृशो वपुर्बादं भृशमादरातिशयशंसि मुखरागादिलिङ्गैरादरविशेषव्यञ्जकमभूत् । सत्यादरे किमुपचारैरिति भावः ॥ परिमन्थराभिरलघुरुभरादधिवेश्म पत्युरुपचारविधौ । स्खलिताभिरप्यनुपदं प्रमदाः प्रणयातिभूमिमगमन्गतिभिः॥७८॥
परीति ॥ प्रमदा अधिवेश्म निजवेश्मनि पत्युरुपचारविधौ प्रत्युत्थानादिकर्मणि अलधोर्महत अरुभरात्परिमन्थराभिरलसाभिः अनुपदं पदे पदे स्खलिताभिरपि गतिभिः प्रणयातिभूमि प्रेमप्रकर्षमगमन् । परप्रेमास्पदीभूता इत्यर्थः । प्रत्युत्थानादपि स्खलितगमनमेव पत्युः प्रीतिकरमभूदिति भावः । स्त्रीणां स्खलन पन्युः प्रीतिकरमिति विरोधाभासोऽलंकारः ॥ मधुरोन्नतभ्र लसितं च दृशोः सकरप्रयोगचतुरं च वचः । प्रकृतिस्थमेव निपुणागमितं स्फुटनृत्यलीलमभवत्सुतनोः ।। ७९ ॥
मधुरेति ॥ मधुरं मनोहरं यथा तथोन्नते उच्चलिते ध्रुवौ यस्मिंस्तन्मधुरोन्नतभ्रु । 'गोस्त्रियोरुपसर्जनस्य' इति इस्वत्वम् । दृशोर्लसितं नयनचेष्टा च सकर