________________
नवमः सर्गः । . २३५ प्रयोग हस्ताभिनयसहितं तच्चतुरं च तद्वचश्च सुतनोः स्त्रियाः प्रकृतिस्थमेव स्व. भावसिद्धमेव सदपि निपुणेन निपुणाचार्येणागमितमभ्यासितम् । अत एव स्फुटं प्रथितं यन्नत्यं तस्य लीलेव लीला यस्य तत्तथोक्तमभवदिति निदर्शनालंकारः । तया नर्तक्युपमा गम्यते ॥ ___ अथ कस्याश्चिरसपत्नीनामग्रहेणाहूतायाः कान्तोपालम्भं विशेषकेणाहतदयुक्तमङ्ग तव विश्वसृजा न कृतं यदीक्षणसहस्रतयम् । प्रकटीकृता जगति येन खलु स्फुटमिन्द्रताय मयि गोत्रभिदा ॥८॥
तदिति ॥ अङ्गेत्यामन्त्रणे । विश्वसृजा विधात्रा तव ईक्षणसहस्रतयं नेत्रसहस्रसमूहः । 'संख्याया अवयवे तयप्'। न कृतं न सृष्टमिति यत्तदयुक्तम् । कुतः । येन कारणेन मयि विषये स्फुटं प्रत्यक्षमेव गोत्रभिदा नामभेदिनाद्रिभेदिना च । 'गोत्रं नानि कुलेऽप्यगौ' इति यादवः । त्वयेति शेषः । अद्य इन्द्रता जगति प्रकटीकृता खलु । अत्र गोत्रभिदेति श्लेषानुप्राणितं सहस्राक्षत्वमुत्प्रेक्ष्यते ॥ न विभावयत्यनिशमक्षिगतामपि मां भवानतिसमीपतया । हृदयस्थितामपि पुनः परितः कथमीक्षते बहिरभीष्टतमाम् ॥८१॥
नेति ॥ अनिशमक्षिगतां चक्षुःसंनिकृष्टामपि, द्वेप्यामिति च गम्यते । 'द्वेष्ये स्वक्षिगतः' इत्यमरः । मामतिसमीपतया भवान्न विभावयति । शेषे प्रथमः' इति प्रथमपुरुषः । इन्द्रियसंनिकृष्टमपि न लक्ष्यत इति विरोधाभासनार्थोऽपिशब्दः। परमार्थस्तु द्वेष्यत्वादतिसामीप्याच्चाविभावनं न चित्रमिति भावः। अभीष्टतमा पुनर्हदयस्थितां हृदयादनपेताम् , अन्तर्हितामिति च गम्यते । अत एव विरोधाभासकोऽपिशब्दः । बहिः पुरतः कथं भवानीक्षते इदं तु चित्रम् । अतिसामीप्यव्यवधानस्यापि दर्शनप्रतिबन्धकत्वादिति भावः । प्रेमास्पदं वस्तु परोक्षमप्यपरोक्षमीक्षते इतरदपरोक्षमपि परोक्षमेवेति तात्पर्यार्थः । विरोधाभासयोः संकरः॥ इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपातविकसद्वदनाम् । वकरावलम्बनविमुक्तगलत्कलकाञ्चि कांचिदरुणतरुणः॥ ८२ ।।
इतीति ॥ इत्यभिधाय पुरो गन्तुमिच्छु क्षणं दृष्ट्योः पातेन विकसद्वदनाम् । परस्परदृष्टिपातमात्रगतकोपामित्यर्थः । कांचिन्नायिका तरुणो युवा स्वकरावलम्बनं प्रियकरण ग्रहगं तेन विमुक्ता मुक्तबन्धना अत एव गलन्ती भ्रंशमाना कला मधुरा काञ्ची यस्मिन्कर्मणि तद्यथा तथा अरुणबुद्धवान् । रुधेलङि 'रुधादिभ्यः श्नम्' । एषा च कलहान्तरिता ॥ अपयाति सरोपया निरस्ते कृतकं कामिनि चुक्षुवे मृगाक्ष्या । कलयन्नपि सव्यथोऽवतस्थेऽशकुनेन स्खलितः किलेतरोऽपि ॥८॥