________________
शिशुपालवधे
अपयातीति ॥ सरोषया मृगाक्ष्या निरस्ते कामिनि भर्तर्यपयाति निर्याते सति कृतकं कृत्रिमं यथा तथा चुक्षुवे । तन्निर्गमनप्रतिबन्धार्थं क्षुतं कृतमित्यर्थः । 'क्षु शब्दे' भावे लिट् । इतरोऽपि नायकोऽपि कलयन्नपि कृतकोऽयमिति जानन्नपि अशकुनेन स्खलितः किल निरुद्ध इव सव्यथः सनिर्वेद इवावतस्थे स्थितः । न त इत्यर्थः । उभावपि समानानुरागाविति भावः । एषा च कलहान्तरिता ॥ आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नमितमुखेन्दु मानवत्या । तनूनं पद्मवलोकयांबभूवे मानस्य द्रुतमपयानमास्थितस्य ॥ ८४ ॥
आलोक्येति ॥ मानवत्या कोपवत्या स्त्रिया । 'स्त्रीणामीकृतः कोपो मानोऽन्यासङ्गिनि प्रिये' । प्रियतममालोक्य । स्थित्यासमानकर्तृकत्वात्क्त्वा निदेशः । अंशुके विनीवौ प्रियावलोकनाद्विगलितबन्धे सति । भाषितपुंस्कत्वात्युं - वद्भावः । 'स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च' इत्यमरः । नमित मुखेन्दु यथा तथा तस्थे स्थितमिति यत्तत्तस्मान्नम्रमुखावस्थानाद्रुतं शीघ्रम् । प्रियावलोकनक्षण एवेत्यर्थः । अपयानमास्थितस्य प्रयाणं गतस्य मानस्य कोपस्य पदं पदचिह्नमवलोकयांबभूवे । अन्वेषितमित्यर्थः । लज्जानिमित्ताया मुखनतेः अन्वेपणार्थत्वमुत्प्रेक्ष्यते नूनमिति । मानगन्धोऽप्यस्तमित इति भावः ॥ सुदृशः सरसव्यलीकतप्तस्तरसाश्लिष्टवतः सयौवनोप्मा । कथमप्यभवत्स्मरानलोष्णः स्तनभारो न नखंपचः प्रियस्य ।। ८५ ।
1
सुदृश इति ॥ सरसमा । नूतनमिति यावत् । तेन व्यलीकेन प्रियकृतेनापराधेन तप्तः तथा यौवनोष्मणा सह वर्तत इति सयौवनोष्मा । किंच स्मरानलोष्णः कामाग्निसंतप्तः एवं त्रिविधाग्नितप्तोऽपि सुदृशः स्तनभारस्तरसा वेगेन । अतिदाहदशायामेवेत्यर्थः । आश्लिष्टवत आलिङ्गितवतः प्रियस्य कथमपि कथं वा । कुतो हेतोरित्यर्थः । नखं पचति क्वाथयतीति नखंपचः । पचिरत्र तापवाची | 'मितनखे च' इति खश्प्रत्ययः । 'अरुर्द्विषदजन्तस्य मुम्' इति मुमागमः । नाभवत् । तथोष्ण ईषदुष्णोऽपि नाभूदित्यर्थः । प्रियासङ्गप्रतीकाराः खलु कामिनां संतापा इति भावः । ताद्यगौष्ण्यसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः ॥
२३६
दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी तलम् । बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न ८६
दधतीति ॥ उरु महदशीतलं सरयौवनोदमभ्यामुष्णमुरोजद्वयं कुचद्वयं दधती भुवस्तलं गता स्वयं साक्षादुर्वशीच स्थितेत्युत्प्रेक्षा । काचन स्त्री अप्रतिमेन मुखेन बभौ । तां प्रति मेनका मेनकाख्याप्सराश्च श्रिया सौन्दर्येणाधिका नेत्यतिशयोक्तिः । तयोर्यमकेन संसृष्टिः । वंशस्थं वृत्तम् ॥
इत्थं नारीर्घटयितुमलं कामिभिः काममासप्रालेयांशोः सपदि रुचयः शान्तमानान्तरायाः ।