________________
दशमः सर्गः।
आचार्यत्वं रतिषु विलसन्मन्मथश्रीविलासा
ह्रीप्रत्यूहप्रशमकुशलाः शीधवश्चक्रुरासाम् ॥ ८७ ॥ ___इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यके
प्रदोषवर्णनं नामाष्टमः सर्गः ॥ ९ ॥ इत्थमिति ॥ इत्थमनेन प्रकारेण । 'इदमस्थमुः' इति थमुप्रत्ययः । सपदि शान्तः शमितो मानः कोप एवान्तरायो याभिस्ताः । 'वा दान्त-' इत्यादिना शमेय॑न्ताच्छान्तेति निपातः । प्रालेयांशोश्चन्द्रस्य रुचयो नारीः कामिभिर्घटयितुम् । 'मितां इस्वः । 'पर्याप्तिवचनेष्वलमर्थेपु' इति तुमुन्प्रत्ययः । कामं प्रकामं समर्था आसन् । दूत्य इवेति भावः । विलसन्तो मन्मथश्रीविलासा भणितसीस्कारादिमदनातिरेकविकारा याभिस्ताः हीरेव प्रत्यूहो विघ्नस्तस्य प्रशमे निवारणे कुशलाः शेरते आभिरिति शीधवो मदिराः। 'शीडो धुक्' इत्यौणादिको धुक्. प्रत्ययः । आसां रतिषु आचार्यत्वमुपदेशं चक्रुः । नर्मसख्य इवेति भावः । अत्र प्रथमार्धे प्रस्तुतचन्द्रभासां मानशमनकामिघटनपाटव विशेषणसाम्यादप्रस्तुतदूतीत्वप्रतीतेः समासोक्तिः । द्वितीयाधं तु शीधुष्वारोपितस्याचार्यत्वस्य प्रकृतोपयोगात्परिणामः । तयोः सापेक्षत्वात्संकरः । तेन च दूतीनमसख्युपमाध्वनिः । उत्तरसगे मधुपानरतोत्सववर्णनायाश्वायमेव प्रस्तावः । मन्दाक्रान्ता वृत्तम् । 'मन्दाक्रान्ता जलधिपडगम्भी नतो तो गुरू चेत्' इति लक्षणात् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध
काव्यव्याख्याने सर्वकषाख्ये नवमः सर्गः ॥ ९ ॥
दशमः सर्गः। आचार्यत्वं रतिषु शीधवश्चरित्युक्तं तत्प्रपञ्चनायास्सिन्समें मथुपानं तावदयतिसजितानि सुरभीण्यथ यूनामुल्लसन्नयनवारिरुहाणि । आययुः सुघटितानि सुरायाः पात्रतां प्रियतमावदनानि ॥१॥ सजितानीति ॥ अथ पानगोष्टीप्रस्तावानन्तरं सजितानि यावकक्षालनादिना संस्कृतानि सुरभीणि यथायोगं स्वभावसंस्काराभ्यां सुगन्धीनि नयनानि वारिरहाणीव, अन्यत्र नयनानीव वारिरुहाणि वासनार्थ क्षिप्तानि तान्युल्लसन्ति येषु तानि तथोक्तानि सुघटितानि सुष्टु मुखैोजितानि शोभनसंस्थानवत्तया निर्मितानि वा प्रियतमावदनानि यूनां कामिनां सुरायाः पात्रतां पानभाजनतां ययुः । प्रियामुखसंपर्कजनितरसास्वादलोभात्तासां मुखसुरामेव पपुरिति भावः । अत्र वदनेष्वारोप्यमाणायाः पात्रतायास्तादात्म्येन तेषां पानसाधनतापादनेन कृतवद.