________________
२३८
शिशुपालवधे
नोपयोगात्परिणामालंकारः। 'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति लक्षणात् । तेन श्लेषसंकीर्गेनोपमा व्यज्यते । अस्मिन्सर्गे स्वागतः वृत्तम् । 'स्वागतेति रनभा गुरुयुग्मम् ।
सोपचारमुपशान्तविचारं सानुतर्पमनुतर्षपदेन । ते मुहूर्तमथ मूर्तमपीप्यन्प्रेम मानमवधूय वधूः स्वाः॥२॥ सोपचारमिति ॥ अथ पात्रीकरणानन्तरं ते युवानः सोपचार सप्रार्थनमु. पशान्तविचारं निवृत्तशङ्कम् । 'विवादम्' इति पाठे मानमवधूयेति पुनरुक्तिः । चारं चारमित्यनुप्रासक्रमभङ्गश्च स्यात् । सानुतपं सतृष्णं च यथः तथा अनुतर्ष. त्यनेनेत्यनुतर्षो मद्यम् । 'मद्येऽनुतपं तत्पादे पात्रे तृष्णाभिलाषयोः' इत्युभय त्रापि विश्वः। तस्य पदेन छलेन मूत मूर्तिनस्वाः स्त्रीया वधूमुहूर्त क्षणं मानं कोपमवधूयापीप्यन्पाययन्ति स्म । पिबतेण चडि 'लोपः पिबतेरीचाभ्यासस्य' इति धात्वाकारलोपः ईकारोऽभ्यासस्य । 'न पादमि-' इत्यादिना निगरणार्थत्वात्परस्मैपदनिषेधेऽपि 'णिचश्च' इत्यात्मनेपदविकल्पात्याक्षिक परस्मैपदम् । 'गतिबुद्धि-' इत्यादिना वधूरित्यणिकर्तुः कर्मस्वम् । अनुतर्षपदेनेत्यनुतर्षापहवेन मूर्त प्रेमत्वोटप्रेक्षणात् व्यञ्जकाप्रयोगाच्च प्रतीयमाना सापड्लवोत्प्रेक्षा
क्रान्तकान्तबदनप्रतिविम्बे भग्नबालसहकारमुगन्धौ । खादुनि प्रणदितालिनि शीले निर्वबार मधुनीन्द्रियवर्गः ॥३॥ क्रान्तेति ॥ क्रान्तं संक्रान्तं कान्तवदनप्रतिबिम्बं यस्मितस्मिन् । नेत्रवृत्तिकर इत्यर्थः । भन्नाः क्षिप्ताः बालसहकाराश्तविशेषपल्लवाः । 'आम्रश्चतो रसा. लोऽसौ सहकारोऽतिसौरभः' इत्यमरः । तैः सुगन्धौ सुरभिणि । ब्राणतर्पण इत्यर्थः । 'तृतीयादिषु भाषितपुंस्कं ध्वगालवस्य' इति पुंवद्भावः । स्वादुनि मधुरे रसनाकर्षिणीत्यर्थः। प्रणदितालिनि गुञ्जन्मधुकरे । श्रुतिसुख इत्यर्थः । शीते । स्पर्शसुखे इत्यर्थः । एवं पञ्चविषयसमष्टौ मधुनि मद्ये इन्द्रियवर्गश्चक्षुरादिपञ्चकं निर्ववार निर्वृतमभूत् । अत्र रूपरसादिपदार्थनई मधुविशेषणभावेन निर्वृतिहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥
कापिशायनसुगन्धि विघूर्णन्नुन्मदोऽधिशयितुं समशेत । फुल्लदृष्टि वदनं प्रमदानामजचारू चपकं च पडत्रिः ।। ४ ।। कापिशायनेति ॥ उन्मद उद्भिक्तमदः अत एव विपूर्णन्भ्रमन् षडङ्खिः षट्पदः कापिशायनेन सुगन्धि सुरभि : 'कश्यं कल्यं तथा मई मैरेयं कापिशायनम्' इति वैजयन्ती। फुल्लदृष्टि विकसितनेत्रं प्रमदानां वनितानां वदनमधिवासनार्थेऽजेन चार चषकं पानपात्रं च । 'चषकोऽस्त्री पानपात्रम्' इत्यमरः । अधिशयितुमधिष्ठातुं समशेत । इदं भजामीदं भजामि वेत्युभयलोभाथै दोलाय. मानमानस आसीदित्यर्थः । अत्र प्रकृतयोरेव बदनचपकयोः षट्पदाभिलाषास्पदत्वरूपैकधर्मयोगादौपम्यस्य गम्यतायां तुल्ययोगिताभेदः ॥