________________
दशमः सर्गः।
२३९ विम्बितं भृतपरिस्रुति जानन्माजने जलजमित्यबलायाः। घ्रातुमक्षि पतति भ्रमरः स भ्रान्तिभाजि भवति व विवेकः॥५॥ बिम्बितमिति ॥ भृता परित्रुद्वारुणी यस्मिंस्तस्मिन् । 'परिसुदरुणात्मजा' इत्यमरः । भाजने पानपात्रे बिम्बितं प्रतिबिम्बितमबलाया अक्षि जलजमिति जानन् । सादृश्यात्तथा भ्राम्यन्नित्यर्थः । भ्रमरः घ्रातुं पतति स्म । तथा हि भ्रान्तिभ्रंमणं, विपरीतज्ञानं च तद्भाजि विवेको विचारः । क भवति । न कापीत्यर्थः । अत्र भ्रमरस्याक्षिजलजभ्रान्तेर्भ्रान्तिमदलंकारः । तत्समर्थकत्वाच्छेषमूलातिशयोतयुत्थापितोऽर्थान्तरन्यासः । तेन सहाङ्गाङ्गिभावेन संकरः ॥
दत्तमिष्टतमया मधु पत्युढिमाप पिवतो रसवत्ताम् । यत्सुवर्णमुकुटांशुभिरासीचेतनाविरहितैरपि पीतम् ॥ ६॥ दत्तमिति ॥ इष्टतमया दत्तं मधु मयं कर्तृ पिबतः पत्युः रसवत्तां प्रेयसीकरस्पर्शादतिस्वादुतामाप । अतिशायने मतुप् । बाढं ध्रुवमित्युत्प्रेक्षा । कुतः । यद्यमाञ्चेतनाविरहितैरचेतनैः सुवर्णमुकुटांशुभिरपि । मधुनि प्रसृतैरिति भावः । पीतं पीतवर्ण पीतं चासीत् । अत्र पीतमिति श्लेषमूलातिशयोक्त्या पीतिम्नः क्रियाभेदाध्यवसायेनाचेतनांशुकर्तृकपानक्रियानिमित्ता प्रेयसीस्वहस्तदानाहितर. सवत्तोत्प्रेक्षा । तथा च यदचेतनानामपि पेयं तच्चेतनानां किं वक्तव्यमित्यर्थापा त्तिध्वननादलंकारेणालंकारध्वनिः ॥
वादनेन सुतनोरविचारादोष्ठतः समचरिष्ट रसोज । अन्यमन्यदिव यन्मधु यूनः वादमिष्टमतनिष्ट तदेव ॥७॥ स्वादनेनेति ॥ सुतनोः कर्ष्याः स्वादनेनास्वादनेन ओष्ठतः ओष्ठाद्रसः स्वादोऽत्र मधुनि अविचारादसंशयात्समचरिष्ट संक्रान्तः । संपूर्वाञ्चरतेलुंङ् । 'समस्तृतीयायुक्तात्' इत्यात्मनेपदम् । कुतः । यद्यस्मात्तदेव पूर्वमुक्तमेव मधु अन्यदिवापूर्वमिवान्यमपूर्वमिष्टं प्रियं स्वादं रसं यूनोऽतनिष्ट । तनोतेलुङि तङ् । ओष्ठस्पर्शानन्तरमेव रसान्तरप्रादुर्भावादनन्तरन्यायात्तद्रससंक्रमणो. स्प्रेक्षा । सा चाविचारादिति व्यञ्जकाप्रयोगाद्वाच्या ॥ विभ्रतौ मधुरतामतिमात्र रागिभिर्युगपदेव पपाते ।
आननैर्मधुरसो विकसद्भिर्नासिकाभिरसितोत्पलगन्धः ॥ ८॥ विभ्रताविति ॥ रागिभिः कामिभिरतिमात्रं मधुरतां स्वादुतां प्रियत्वं वा बिभ्रती 'मधुरं रसवत्स्वादु प्रियेषु मधुरोऽन्यवत्' इति विश्वः । तस्य भावस्ताम् । विकसद्भिर्विकसन्तीभिश्च विकसद्भिः तृष्णया विजृम्भमाणैः । 'नपुंसकमनपुंसकेनैकवचास्यान्यतरस्याम्' इति नपुंसकैकशेषः । आननैः मधुरसो मद्यरसः नासिकाभिणैरसितोपलगन्धश्च युगपदेव पपाते पीतौ । भिन्नेन्द्रियग्राह्यावपि