________________
२४०
शिशुपालवधे
गन्धरसौ युगपत्स्वेन्द्रियसंबन्धाद्युगपद्गृहीतावित्यर्थः । अत्र मनस आशुसंचाराariyarभमानः । शतपत्रशरव्यतिभेदवदित्यणुपरिमाणवादिनः । वास्तवमेव यौगपद्यमिति मध्यम परिमाणवादिनः । सार्वपथीनास्तु कवय इत्यलमतिपल्लवितेन । अत्र रसगन्धयोः प्रकृतयोरेकपानक्रिया संबन्धात्तुल्ययोगिताभेदः ॥
पीतवत्यभिमते मधुतुल्यस्वादमोष्टरुचकं विददौ ।
लभ्यते स्म परिरक्ततयात्मा यावकेन वियतापि युवत्याः ॥९॥ पीतवतीति ॥ विददङ्क्षौ विदंष्टुमिच्छौ । उपदंशेच्छावतीत्यर्थः । दंशेः सन्नन्तादुप्रत्ययः । अभिमते वल्लभे मधुना तुल्यस्वादं तुल्यरसं । तुल्यत्वं च हृद्यतामात्रेण नान्यथा विलक्षणरसस्य अनुपदंशत्वात् । ओष्टो रुचकमाभरणमिवेत्युपमितसमासः । ' रोचनायां तु रुचकमश्वाभरणमाल्ययोः' इति विश्वः । तमोष्टरुचकमोष्टश्रेष्ठं पीतवति सति वियता अपगच्छतापि । इणो लटः शत्रादेशे 'इणो यण्' इति यणादेशः । युवत्याः युवतेः । 'ङिति ह्रस्वश्च' इति वा नदीत्वादाडागमः । यावकेनालक्तकेन परिरक्ततया दन्तनिष्पीडनकृतेन रागेण हेतुना आत्मा स्वरूपं लभ्यते स्म लब्धः । पुनरुद्भूतमित्यर्थः । अत्राधरपानादपगतस्यापि याचकस्य रागप्रादुर्भाव निमित्ता विरोधगर्भा पुनरुद्भवोत्प्रेक्षा व्यञ्जकाप्रयो
गाद्गस्या च ॥
कस्यचित्समदनं मदनीयं प्रेयसीवदनपानपरस्य ।
स्वादितः सकृदिवासव एव प्रत्युत क्षणविदंशपदेऽभृत् ॥ १०॥ कस्यचिदिति ॥ समदनं यथा तथा मदयतीति मदनीयं मदकारि । 'कृत्यल्युटो बहुलम्' इति कर्तर्यनीयप्रत्ययः । तस्य प्रेयसीवदनस्य पानं परं प्रधानं यस्य तस्य कार्मुकत्वात्प्रिया मुखपानासक्तस्य कस्यचित्कामिनः सकृदिव स्वादितोsबाहुल्येन पीतः । इवशब्दो वाक्यालंकारे । आसव एव । प्रत्युत वैपरीत्ये इति गणव्याख्याने | क्षणं विदंशपदे उपदंशस्थानेऽभूत् । अन्येषां मधुपानलोलुपानामधरास्वाद उपदंशः । अस्य स्वधरपानैकपरस्य मध्येवोपदंश इत्यर्थः । अधरपानस्योपदेशत्व संबन्धेऽप्यसंबन्धः आसवस्य तदसंबन्धेऽपि संबन्ध इत्यतिशयोक्तयोरसापेक्षत्वात्संसृष्टिः ॥
पीतशीधुमधुरैर्मिथुनानामाननैः परिहृतं चपकान्तः । व्रीडया रुददिवालिविरावैनीलनीरजमगच्छदधस्तात् ।। ११ ।। पीतेति ॥ पीतशीधूनि पीतमद्यानि अत एव मधुराणि मनोज्ञानि तैर्मिधुनानां स्त्रीपुंसानामाननैः चपकान्तः पानपात्राभ्यन्तरे । 'चपकोऽस्त्री पानपानम्' इत्यमरः । परिहृतं त्यक्तं नीलनीरजं वासनार्थे निक्षिप्तं नीलोत्पलं व्रीडया परिहारलज्जया अलिविरावैः रुददिवाधस्ताद्गच्छत् । अत्र मद्यापगमनिमित्तत्य नीलनीरजाधोगमनस्य रोदनविशिष्टलज्जा हेतुकत्वोत्प्रेक्षा । सा चालिविरावैरिति व्यधिकरणकारिणामोज्जीवितेति संकरः ॥