________________
दशमः सर्गः।
२४१
अथ मदानुभावान्वर्णयतिप्रातिभं त्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः । गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः ॥ १२ ॥ प्रातिभमिति ॥ त्रयाणां सरकाणां समाहारस्त्रिसरकं त्रिवारमधुपानम् । सरकं शीधुपात्रे स्याच्छीधुपाने च शीधुनि' इति विश्वः । 'तद्धितार्थ-' इत्यादिना समाहारे द्विगुः पात्रादित्वान्नपुंसकत्वम् । तेन त्रिसरकेण त्रिपानं यदातिभूमिरिति पानप्रसिद्धिः । प्रतिभैव प्रातिभं प्रतिभाविशेषः । प्रज्ञादित्वात्स्वार्थेऽणप्रत्ययः । यहा 'ज्ञानबीजभूतः संस्कारविशेषः प्रतिभा' इति काव्यप्रकाशकारः। तत्र भवं प्रातिभं ज्ञानप्रभाविशेष एव । भवार्थेऽण्प्रत्ययः । तत्प्रातिभं गतानाम् । त्रिवारमधुपानोत्कटमदोबुद्धसंस्कारप्रभावितप्रगल्भमतीनामित्यर्थः । सुध्रुवां स्त्रीणां वक्रवाक्यरचनारमणीयः प्रतिकूलवाक्यप्रयोगरम्यः । गूढानि पूर्वं लज्जया संवृतानि सूचितानि संप्रति मदेन प्रकाशितानि रहस्यानि ग्राम्यावयवचेष्टाप्रलपितानि यस्मिन्स गृढसूचितरहस्यः स चासौ सहासश्चेति विशेषणसमासः वैवक्षिकविशेषणविशेष्यभावात् । 'हासो हास्यम्' इत्यमरः । परिहासो नर्मकेलिरूपहासक्रीडेति यावत् । 'दवकेलिपरीहासाः' इत्यमरः । प्रववृते प्रवृत्तः । इतः परं मदः संचारी ॥ हावहारि हसितं वचनानां कौशलं दृशि विकारविशेषाः । चक्रिरे भृशमजोरपि वध्वाः कामिनेव तरुणेन मदेन ॥१३॥
हावेति ॥ तरुणेनोत्कटेन यूना च मदेन कामिनेव ऋजोर्मुग्धाया अपि वध्वाः । किमुत प्रौढानामिति भावः । हावहारि विलासमनोहरं हसितं हासः वचनानां कौशलं प्रागल्भ्यं दृशि विकारविशेषाः विलासविशेषाश्चक्रिरे कृतानि । पुंसेव मौग्ध्यं त्याजयित्वा प्रौढ्यं नीतेत्यर्थः । अत्र हसितकौशलविकाराणां योगपद्योक्त्या समुच्चयः । 'गुणक्रियायोगपद्यं समुच्चयः' इति लक्षणम् । तस्यौपम्ययोगेन संकरः । तेन ऋजोरपीत्यत्र किमुत प्रौढानामित्यर्थापत्तिय॑ज्यते ॥ अप्रसन्नमपराद्वरि पत्यौ कोपदीप्तमुररीकृतधैर्यम् । आलितं नु शमितं नु वधूनां द्राविनं नु हृदयं मधुवारैः ॥१४॥
अप्रसन्नमिति ॥ अपराद्धरि आगरकारिणि । राधेस्तृच्प्रत्ययः । पत्यौ विषये अग्रसन्नं कलुपम् । क्षुभितमित्यर्थः । कोपदीप्तं कोपेन ज्वलितमुररीकृतधैर्यमङ्गीकृतकाठिन्यम् । 'ऊरीकृतमुररीकृतम्' इत्यमरः । 'ऊर्यादिविडाचश्च' इति गतिवात् 'कुगतिप्रादयः' इति समासः । वधूनां हृदयं मधुवारैर्मद्यपर्यायैः। 'मधुवारा मधुक्रमाः' इत्यमरः । क्षालितं धीतं नु । शमितं निर्वापितं नु । दावितं द्रवीकृतं नु । अन्यथा कथं तादृगप्रसन्नतादीप्तताकठिनतानां हठान्निवृत्तिरिति भावः । अत्र क्षालितत्वादीनामेकत्राविरोधात्सादृश्याच्च न संशयालंकारः सति सादृश्ये विरुद्धानेककोटिगोचरत्वात्तस्य, किंत्वप्रसन्नत्वादिनिरासनिमित्तकक्षालित
शिशु० २१