________________
२४२
शिशुपालवधे
त्वाद्युत्प्रेक्षात्रये नुशब्दानुवृत्तेः तच्चाप्रसन्नत्वाद्युद्देशिनां क्षालितत्वाद्यनुद्दे शिभिर्यथासंख्येनान्वयमपेक्षत इति यथासंख्यालंकारेण संकीर्यते ॥ सन्तमेव चिरमप्रकृतत्वादप्रकाशितमदिद्युतदङ्गे । विभ्रमं मधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थम् ॥ १५ ॥
सन्तमिति ॥ मधुमदः प्रमदानामङ्गे वपुषि अन्यत्र ' यस्मात्प्रत्ययविधिः- ' इत्युक्तलक्षणे प्रकृत्याख्ये शब्दरूपे । चिरं सर्वदा सन्तमेव । एकत्र स्वभावात्, अन्यत्र त्वनेकार्थत्वाद्धातूनामिति भावः । किं चाप्रकृतत्वादप्रस्तुतत्वात् । अप्रसकत्वादिति भावः । अप्रकाशितमव्यञ्जितं विभ्रमं विलासं धातौ भूवादिके लीनं गूढमर्थमभिधेयं उपसर्गः प्रादिरिवादिद्युतयोतयति स्म । द्युतेः 'णौ चङयुपधाया ह्रस्वः' । ' द्युतिस्वाप्योः संप्रसारणम्' इत्यभ्यासस्य संप्रसारणविकारः । उपसर्गस्य धातुली नार्थ द्योतकत्वमादानसंदानादावनुसंधेयम् । उपमालंकारः ॥ सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु । गन्तुमुत्थितमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् ।। १६ ।।
सावशेषमिति ॥ सावशेषाण्यर्धोक्तानि पदानि यस्मिंस्तदुक्तमुक्तिर्वाक्यं स्रस्तेषु माल्यवसनाभरणेषूपेक्षानादरः अकारणतोऽकस्मादेव गन्तुमुत्थितमुत्थानं च आसां स्त्रीणां मदविभ्रमं मदविकारं द्योतयन्ति स्म । एतैरनुभावैरासां मदसंचारो ज्ञात इत्यर्थः । अत्रार्धोक्तादीनां खलेकपोतिकया मदद्योतने प्रवृत्तत्वात्कारणाख्यो द्वितीयसमुच्चयः। ‘खलेकपोतन्यायेन बहूनां कार्यसाधने । कारणानां समुद्योगः स द्वितीयः समुच्चयः ॥' इति लक्षणात् ॥
भद्यमन्दविगलत्रपमीपच्चक्षुरुन्मिपितपक्ष्म दधत्या । वीक्ष्यते स्म शनकैर्नववध्वा कामिनो मुखमधोमुखयैव ॥ १७ ॥
मद्येति ॥ मद्येन मद्यपानेन मन्दमल्पं विगलन्ती नपा यस्य तत् । अत एवेषदुन्मिषितानि पक्ष्माणि लोमानि यस्य तच्चक्षुर्दधत्या नववध्वा नवोढया कामिनः प्रियस्य मुखमधोमुखयैव नमितवदनयैव । ' स्वाङ्गाच्चोपसर्जनात् -' इति विकल्पादनीकारः । शनकैरसंभ्रमेण वीक्ष्यते स्म । तिर्यगीक्षितमित्यर्थः । अत्रापि मदमानाभ्यां त्रपैव बलीयसीति मौग्ध्यातिशयोक्तिः । ' समुद्यद्यौवना मुग्धा लज्जापिहितमन्मथा' ॥
या कथंचन सखीवचनेन प्रागभिप्रियतमं प्रजगल्भे । व्रीडजाड्यमभजन्मधुपा सा स्वां मदात्प्रकृतिमेति हि सर्वः ॥ १८ ॥
येति ॥ या स्त्री कथंचन कृच्छ्रेण सखीवचनेन सखीप्रेरणया प्रादात्पूर्वमभिप्रियतमं प्रियतमसमक्षम् | आभिमुख्येऽव्ययीभावः । प्रजगल्भे प्रगल्भते स्म । सा स्त्री मधु पिबतीति मधुपा । 'आतोऽनुपसर्गे कः' । 'ब्रीडं जाड्यं मौग्ध्यम