________________
एकोनविंशः सर्गः।
४८३ वाजिन इति ॥ द्रुतं वजन्तीति द्रुतवाजिनः शीघ्रगामिनः । 'वज गतौ' इति धातोर्णिनिः । वाजिनोऽश्वाः, वाजिनः पक्षवन्तः शराश्च। 'पक्षो वाजस्त्रीघूत्तरे' इत्यमरः। समारब्धा नवा अपूर्वा आजियुद्धं येन तस्य समारब्धनवा. जिनः शत्रुसैन्यस्य मध्यमविशन् । अत्र वाजिनां शराणां च प्रवेशाख्यतुल्ययोगिताभेदो यमकेन संसृज्यते ॥
पुरस्कृत्य फलं प्राप्तः सत्पक्षाश्रयशालिभिः ।
कृतपुङ्खतया लेभे लक्षमप्याशु मार्गणैः ॥ ६३ ॥ पुरस्कृत्येति ॥ फलं शल्यं पुरस्कृत्य पुरोधाय, अन्यत्र फलं लाभं पुरस्कृत्य । संभाव्येत्यर्थः । प्राप्तैरागतैः सत्पक्षाश्रयेण साधुकङ्कादिपत्रग्रन्थनेन, अन्यत्र साधुसहायावलम्बनेन शालन्ते इति तथोक्तैः मार्गणैः सायकैरर्थिभिश्च । 'मार्गणौ सायकार्थिनौ' इत्यमरः । कृतपुखतया सुबद्धकर्तरीकतया । 'मुखस्थकर्तरी पुल' इति यादवः । अन्यत्र कुशलतयेत्यर्थः । लक्षं शरव्यं, अन्यत्र लक्षसंख्यमपि धनं लेभे । शतादिकं किमु वक्तव्यमिति भावः । 'लक्षं शरव्ये संख्यायाम्' इति विश्वः । अत्राभिधायाः प्राकृतार्थ नियन्त्रणादर्थान्तरप्रतीतेलनिरेव ॥
रक्तस्रुतिं जपासूनसमरागामिषुव्यधात् ।
कश्चित्पुरः सपत्नेषु समरागामिषु व्यधात् ॥ ६४॥ रक्तेति ॥ कश्चिद्वीरः पुरोऽग्रे समरागामिषु समरमागतेषु सपनेषु इषुव्यधाद्वाणप्रहारात् । 'व्यधजपोरनुपसर्गे' इत्यप्प्रत्ययः । जपासूनसमरागां रक्तस्रुति रक्तस्त्रावं व्यधाद्विहितवान् । दधातेलुंङि 'गातिस्था-' इत्यादिना सिचो लुक् । उपमायमकयोः संसृष्टिः ॥
रयेण रणकाम्यन्तौ दूरादुपगताविभौ ।
गतासुरन्तरा दन्ती वरण्डक इवाभवत् ॥६५॥ रयेणेति ॥ रणमात्मन इच्छन्तौ रणकाम्यन्तौ । 'काम्यञ्च' इति रणशब्दा. काम्यच्प्रत्यये सनाद्यन्तधातुत्वाल्लटि शत्रादेशः । रयेण दूरादुपगतौ इभावन्तरा इभयोर्मध्ये । 'अन्तरान्तरेण युक्ते' इति द्वितीया । गतासुम॒तो दन्ती दैवान्मध्यवर्ती हस्तिकुणप इत्यर्थः । वरण्डकोऽन्तरावेदिरिवाभवत् । 'वरण्डको. ऽन्तरावेदौ संदोहमुखरागयोः' इति विश्वः । अभ्यासकाले काञ्चनवेदिमन्तर्धाय दन्तिनौ योधयत इति प्रसिद्धम् । उपमा ॥
॥यक्षरः॥ भूरिभि रिभिर्भीरैर्भूभारैरभिरेभिरे ।
भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः॥ ६६ ॥ - भूरिभिरिति ॥ भूरिभिः भूयोभिः भारिभिः पताकास्तरणादिभारवद्भिः । मत्वर्थीय इनिप्रत्ययः । भियं रान्तीति भीरास्तैीरैः भयदैः। ‘रा दाने' 'आतो.