________________
४८२
शिशुपालवधे त्वाकाव्यलिङ्गं यमकेन संकीर्यते । समुद्गयमकभेदोऽयम् । 'अर्धाभ्यासः समुद्गः स्थादस्य भेदास्त्रयो मताः' इति लक्षणात् ॥
स्खलन्ती न कचित्तैपण्यादभ्यग्रफलशालिनी ।
अमोचि शक्तिः शाक्तीकैलॊहजा न शरीरजा ॥ ५९॥ स्खलन्तीति ॥ शक्तिः प्रहरणं येषां तैः शाक्तीकैः । 'शाक्तीकः शक्तिहे. तिकः' इत्यमरः । 'शक्तियष्ट्योरीकक्' इति प्रहरणार्थे ईकक् प्रत्ययः । तैपण्यानैशित्यात्वचिदपि न स्खलन्ती प्रतिहतिं न प्राप्नुवती । अभ्यग्रं समग्रं यत्फलं शल्यं तेन शालते । अन्यत्र अभ्यग्रेणासन्नेन फलेन श्रेयसा शालत इत्यभ्यग्रफलशालिनी । लोहजा अयोमयी शक्तिरायुधविशेषः अमोचि शत्रुषु मुक्ता । शरीरजा शक्तिः सामर्थ्याख्या तु नामोचि । अतिव्यायामेऽप्यक्षीणशक्तिका एवायुध्यन्तेत्यर्थः । अत्र द्वयोरपि प्रकृतत्वात्केवलप्रकृतश्लेषः ॥
आपदि व्यापृतनयास्तथा युयुधिरे नृपाः।
आप दिव्या पृतनया विस्मयं जनता यथा ॥ ६०॥ आपदीति ॥ नृपा राजानः । आपदि व्यसनेऽपि व्यापृतनयाः प्रवृत्तनीतिका एव सन्तः । न तु श्वापदवृत्त्येति भावः । पृतनया सेनया साधनेन । वाक्यान्तरस्थस्यापि पृतनाशब्दस्यानान्वयः चित्रे सोढव्यः । तथा तेन प्रकारेण युयुधिरे संप्रजहुः । यथा दिव्या जनता अन्तरिक्षवर्तिसिद्ध विद्याधरसङ्घो विस्मयमाप । अमानुषं युद्धं चक्रुरित्यर्थः । अयं च पादाभ्यासयमकभेदः ॥
स्वगुणैराफलप्राप्तेराकृष्य गणिका इव ।
कामुकानिव नालीकांत्रिणताः सहसामुचन् ॥ ६१ ॥ स्वगुणैरिति ॥ त्रिषु स्थानेषु मध्येषु नताः त्रिणताः शामणि । 'पूर्वपदासंज्ञायाम्' इति णत्वम् । गणिका वेश्या इव । ता अपि त्रिणताः मध्ये भ्रवोश्च नतत्वात् । नालीकानिषुविशेषान् । 'नालीकः शरशल्ययोः' इति विश्वः । कामुकानिव । स्वगुणैाभिः रूपलावण्यादिभिश्च । 'गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती । आफलप्राप्तेराशल्यस्पर्शादाधनलाभाच्च आकृप्य कर्णान्तिकं नीत्वा, वशीकृत्य च सहसा अमुचन्नत्याक्षुः । मुचे डि 'पुषादि-' इति च्लेरडादेशः । अनेकैवोपमा ॥
वाजिनः शत्रुसैन्यस्य समारब्धनवाजिनः ।
वाजिनश्च शरा मध्यमविशन्द्रुतवाजिनः ॥ ६२ ॥ १ (१२९९) शकलिखितपुस्तके तु 'तृणताः' इति पाठ उपलभ्यते । अत एव 'तृणता तृणत्वे कार्मुकेऽपि च' इति हैमकोषव्याख्यावसरे कार्मुकाथें इममेव श्लोकमुदाहृत्य वल्लभस्तु 'धनुषि त्रिषु नतास्त्रिणताः' इत्याह । 'तत्र गणिकापक्षे गत्वं चिन्त्यम्' इत्यनेकार्थकैरवाकर कौमुदी।