SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ४८४ शिशुपालवधे. ऽनुपसर्गे कः' । भूभारैः महाकायस्वा वो भारायमाणैः। भेर्य इव रेभन्ते ध्वनन्तीति भेरीरेभिभिः। 'रेभृ शब्दे' ताच्छील्ये णिनिः। अभ्राभैर्मचकैरिति चोपमाद्वयम् । अभीरुभिर्निर्भीकैरिभैर्गजैः । इभाः प्रतिगजास्तादृशा एव अभि. रेभिरे अभियुक्ताः । उपमानुप्रासयोः संकरः । यक्षरानुप्रासः ॥ निशितासिलतालूनैस्तथा हस्तैर्न हस्तिनः। युध्यमाना यथा दन्तैर्भग्नैरापुर्विहस्तताम् ॥ ६७ ॥ निशितेति ॥ युध्यमानाः संप्रहरन्तः हस्ता येषां सन्तीति हस्तिनः । 'हस्ता. जातौ' इति निप्रत्ययः । यथा भग्नैर्दन्तैः विषाणैः विहस्ततां हस्तहीनत्वमितिकर्तव्यतामूढत्वं चापुः । 'विहस्तव्याकुलौ समौ' इत्यमरः । तथा निशिताभिरसिलताभिर्लेनैश्छिन्नैर्हस्तैः शुण्डादण्डैर्विहस्ततां नापुः । हस्तेभ्योऽपि दन्तानां प्रहारसाधनत्वादिति भावः । अत्र हस्तस्याच्छेदे वहस्त्यं न हस्तच्छेदे इति विरोधः प्रतिपत्तिमूढतया समाहित इति विरोधाभासोऽलंकारः ॥ ॥ असंयोगः॥ निपीडनादिव मिथो दानतोयमनारतम् । वपुषामदयापातादिभानामभितोऽगलत् ॥ ६८॥ निपीडनादिति ॥ इभानां वपुषां अदयापातानिर्दयाभियोगाद्धेतोः मिथो निपीडनादिव वस्त्रादिनिपीडनादिवेत्युत्प्रेक्षा। अनारतमश्रान्तं दानतोयमभितो. ऽगलत् । वस्त्रवनिर्दयापातेऽपि मदातिरेक इति गजानामुत्साहातिशयोक्तिः । अन संयोगाभावादसंयोगश्चित्रभेदः । ‘हलोऽनन्तराः संयोगः ॥ रणाङ्गणं सर इव प्लावितं मदवारिभिः । गजः पृथुकराकृष्टशतपत्रमलोडयत् ॥ ६९ ॥ रणेति ॥ गजो मदवारिणा प्लावितमुक्षितं रणाङ्गणं सर इव पृथुना करेणाकृष्टानि शतपत्राणि अमितवाहनानि, अन्यत्र कुशेशयानि च यस्मिन्कर्मणि तत्तथा रणाङ्गणमलोडयदुपाक्षोभयत् । श्लेषविशेषणेयमुपमा ॥ शरक्षते गजे भृङ्गः सविषादिविषादिनि ।। रुतव्याजेन रुदितं तत्रासीदतिसीदति ॥ ७० ॥ शरक्षते इति ॥ गजे शरेण क्षते प्रहते अत एव विषादिना विषादवता विषादिना यन्त्रा सह वर्तते इति तसिन्सविषादिविषादिनि तत्र रणे अतिसी. दति अतिसन्ने सति । मृते सतीत्यर्थः । सदेर्लटः शत्रादेशः । भृङ्गैः कर्तृभिः । 'न लोका-' इत्यादिना षष्ठीप्रतिषेधः । रुतव्याजेन रुतच्छलेन रुदितं रोदन. मासीत् । स्वाश्रयनाशदुःखागोदनं कृतमिवेत्युत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या । सा च रुतव्याजेनेत्यपह्नवपूर्वकत्वात्सापह्नवेति सर्वस्वकारः ॥
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy