SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः। २५१ संप्रवेष्टुमिति ॥ योषितः लिप्यतामालिङ्गतामिष्टतमानां हृदयं संप्रवेष्टुमीपुरच्छन्ति मेव इति गाढालिङ्गननिमित्ता क्रियास्वरूपोत्प्रेक्षा गुणस्वरूपोत्प्रेक्षा वा विवक्षाभेदात् । अत एवात्मनः स्वान्सततमेव तदन्तर्वर्तिनस्तेषामिष्टतमानां अन्तर्हृदयेष्वेव स्थितान्नाजानन्नूनम् । अन्यथा कथं पुनः प्रवेशेच्छेति भावः । इयमज्ञानोत्प्रेक्षा पूर्वोत्प्रेक्षासापेक्षेति सजातीय संकरः ॥ स्नेहनिर्भरमधत्त वधूनामार्द्रतां वपुरसंशयमन्तः । यूनि गाढपरिरम्भणि वस्त्रक्रोपमम्बु ववृषे यदनेन ॥ ४९ ॥ स्नेहेति ॥ स्नेहनिर्भरं प्रेमरसपूर्ण तैलादिकद्रवद्रव्यपूर्ण च । 'स्नेहोऽस्त्री द्रवहार्दयोः' इति वैजयन्ती । अत एव वधूनां वपुरन्तरार्द्रतां द्रवत्वमधत्त । स्नेहव्यसंपूर्णमन्तरार्द्ध भवतीति भावः । असंशयं संशयस्याभावः । अर्थाभावेऽव्ययी - भावः । कुतः । यद्यस्माद्यूनि पुंसि गाढं परिरम्भत इति परिरम्भिणि गाढाश्लेषिणि सति अनेन वपुषा कर्त्रा वस्त्रं क्नोपयित्वा परिषिच्य वस्त्रक्नोपम् । क्नूयीधातोर्ण्यन्तात् 'अतिही-' इत्यादिना पुगागमे 'चेले क्नोपे:' इति णमुल । अम्बु ववृषे । वृषेः कर्मणि लिट् । अन्तरार्द्रस्य निष्पीडनाद्वहिरम्बुस्रावसंभवात्तन्निमित्तेयमन्तराcatcher | प्रियाङ्गसङ्गात्ताः स्विन्ना इति सात्विकोदयोक्तिः ॥ न स्म माति वपुषः प्रमदानामन्तरिष्टतमसंगमजन्मा । हिरवाप्य विकासं व्यानशे तनुरुहाण्यपि हर्षः ॥ ५० ॥ न स्मेति ॥ प्रमदानामिष्टतमसंगमेन जन्म यस्य सः । जन्माद्युत्तरपदनाद्व्यधिकरणबहुव्रीहिरिति वामनः । बहुर्विपुलः । 'विपुलानेकयोर्बहु:' इति वैजयन्ती । हर्षो वपुषोऽन्तर्न माति स्म । अत्युद्वेकान्नान्तः संमित इत्युत्प्रेक्षा । कुतः । यद्यस्माहिर्व बहिर्विकासं वृद्धिमवाप्य तनुरुहाणि रोमाण्यपि व्यानशे व्याप । कर्तरि लिट् । 'अश्नोतेश्च' इति नुडागमः । अत्र बहिर्विकासननिमित्तकान्तरमानोत्प्रेक्षा आनन्दरोमाञ्जयोः श्लेषमूलाभेदाध्यवसायातिशयोक्त्यनुप्राणितेति संकरः ॥ यत्प्रियव्यतिकराद्वैनितानामङ्गजेन पुलकेन बभूवे । प्रापि तेन भृशमुच्छसिताभिनीविभिः सपदि बन्धनमोक्षः॥५१॥ यदिति ॥ वनितानां स्त्रीणां प्रियस्य भर्तुर्व्यतिकरात्संपर्कात्संगमाच्चाङ्गजेवाङ्गव्यापिना पुत्रेण च पुलकेन बभूवे भूतमिति यत् । भावे लिट् । तेन पुलकोदयेन पुत्रोदयेन च भृशमुच्छ्वसिताभिरुच्छिन्नाभिर्मोक्षाशया आश्वसिताभिश्च नीविभिः लक्षणया कटिवस्त्रैः अन्यथा बन्धनशब्देन पौनरुक्तत्यात् । सपदि बन्धनमोक्षो ग्रन्थिभेदो निगडमोचनं च प्रापि प्राप्तः । कर्मणि लुङ् । अभ्युदयेषु राजानो बद्धान्मोचयन्तीति भावः । अत्र प्रकृतपुलकनीविगताङ्गजत्वोच्छु सितत्वादिविशेषणसास्याद्वन्धनमोक्षणसंबन्धाच्च अप्रकृतपुत्रकारागतिप्रतीतेः समासोक्तिरलंकारः ॥ १ 'प्रमदानां' इति पाठः
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy