________________
२५०
शिशुपालवधे संजहारेति ॥ तरुणेषु युवसु विरोधं प्रणयकलहं विरहय्य विहाय । रहयतेः स्वार्थण्यन्तात् क्त्वा तस्य ल्यप् ‘ल्यपि लघुपूर्वात्' इत्ययादेशः । सहसा परिरब्धाः प्रेयस्यो यैस्तेषु परिरब्धप्रेयसीषु आश्लिष्टवधूकेषु सत्सु । 'ईयसश्च' इति कपोऽभावः । 'ईयसो बहुव्रीहौ प्रतिषेधो वक्तव्यः' इत्युपसर्जनस्य ह्रस्वनिषेधः । रतिपतिः कामः संहितं प्रागारोपितं महेषु महान्तं शरं स्मितभिन्नक्रोध स्वयत्रसाफल्यात्मितेनोज्झितपूर्वरोषं च यथा तथा आशु संजहार । सिदेऽर्थे साधनानवकाशादित्यर्थः। परिरम्भान्तो यूनां विरह इति भावः ॥ स्रंसमानमुपयन्तरि वध्वाः श्लिष्टवत्युपसपत्नि रसेन । आत्मनैव रुरुधे कृतिनेव स्वेदसङ्गि वसनं जघनेन ॥ ४५ ॥ स्रंसमानमिति ॥ उपयन्तरि भर्तरि रसेन । रागान्धतयेत्यर्थः । उपसपलि सपत्नीसमीपे। समीपार्थेऽव्ययीभावे नपुंसकहस्वत्वम् । श्लिष्टवति आश्लिष्टवति सति स्रंसमानं स्पर्शसुखपारवश्यान्द्रश्यमानं तथापि स्वेदसङ्गि स्वेदेन सात्विकेन सक्तं वध्वा वसनं कृतिना कुशलेन । स्वस्येदं लाघवमिति जानतेवेत्यर्थः । जघनेन का आत्मनैव स्वयमेव रुरुधे रुद्धम् । सा तु न वेत्तीति भावः । स्वेदहेतुकस्य वसनरोधस्य स्वलाधवज्ञानहेतुकत्वमुत्प्रेक्ष्यते ॥
पीडिते पुर उरःप्रतिपेपं भर्तरि स्तनयुगेन युवत्याः । स्पष्टमेव दलतः प्रतिनास्तिन्मयत्वमभवद्धृदयस्य ॥ ४६॥ पीडित इति ॥ युवत्या युवतेः स्तनयुगेन भर्तरि प्रतिनार्याः पुरोऽग्रे समक्ष मेव उरःप्रतिपिष्य उरःप्रतिपेषम् । 'परिक्लिश्यमाने च' इति णमुल 'कृन्मेजन्तः' इत्यव्ययसंज्ञा । वक्षः प्रतिपीड्यीत्यर्थः । पीडिते सति दलतः ईर्ष्णता दीर्यमाणस्य प्रतिनार्याः सपल्या हृदयस्य तन्मयत्वं भर्तृतादात्म्यं स्पष्टमभवदेव । अन्यथा कथमन्यपीडनादन्यदलनमिति भावः । अत एवेयमसंगत्यलंकारोपजीविनी तन्मयत्वोत्प्रेक्षेति संकरः । 'कार्यकारणयोभिन्नदेशत्वे स्यादसंगतिः' ॥
दीपितस्मरमुरस्युपपीडं वल्लभे धनमभिष्वजमाने । वक्रतां न ययतुः कुचकुम्भौ सुभ्रवः कठिनतातिशयेन ॥४७॥ दीपितेति ॥ वल्लभे दीपितस्मरमुद्दीपितकामं यथा तथा उरस्युपपीडमुरस्युपपीड्य । 'सप्तम्यां चोपपीडरुधकर्ष-' इति णमुल । 'तत्पुरुषे कृति बहुलम्' इत्यलुक् । घनं गाढमभिष्वजमाने परिरम्भमाणे सति । 'परिरम्भः परिष्वङ्गः संश्लेष उपगृहनम्' इत्यमरः। सुभ्रवः कुचकुम्भौ कठिनतातिशयेन वक्रतां परिमण्डलतां न ययतुर्न प्राप्तौ । अत्र गाढालिङ्गनाकुचकुम्भयोर्वक्रत्वसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिरलंकारः ॥ संप्रवेष्टुमिव योपित ईपुः श्लिष्यतां हृदयमिष्टतमानाम् । आत्मनः सततमेव तदन्तर्वर्तिनो न खलु नूनमजानन् ॥४८॥