________________
२५२
शिशुपालवधे अथ चुम्बनक्रीडां वर्णयतिहीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य ।
अर्पितोष्टदलमाननपनं योपितो मुकुलिताक्षमधासीत् ।। ५२ ॥ ह्रीति ॥ परिरम्भे आलिङ्गने हीरेव भरस्तस्मादवनतम् । भाराकान्तं नमतीति भावः । अर्पितं स्वमुखे निहितमोष्ट एव दलं पत्रं यस्य तद्योषित आननमेव पद्म रागवानरागी अवटुजेषु चरमशिरोरुहेषु । 'अवटुर्घाटा कृकाटिका' इत्यमरः । अवकृष्य । अवटुजाकर्षणेनोन्नमय्येत्यर्थः । मुकुलिताक्षं निमीलितनेत्रं यथा तथा । 'बहुव्रीही सक्थ्यक्ष्णोः स्वाङ्गात्षच्' इति षच् प्रत्ययः । अधासीत् पपौ। धेटो लुङ् 'आदेच-' इत्यात्त्वम् । 'विभाषा घ्राधेट्-' इति सिचो वैकल्पिके लुगभावे 'अस्तिसिचोऽपृक्ते' इतीडागमः । अत्राननोष्टस्य पद्मदलत्वरूपणात्तत्रानुरागिणो मधुपत्वं च गम्यत इत्येकदेशविवर्ति रूपकम् ॥
पल्लवोपमितिसाम्यसपक्षं दष्टवत्यधरविम्बमभीष्टे । पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण ॥ ५३॥ पल्लवेति ॥ पल्लवेनोपमित्या सादृश्येन यत्साम्यं तेन सपक्षं उभयोरपि पल्लवैकोपमानत्वसाधर्म्यात्सुहृद्भूतमधरो बिम्बमिव तदधरबिम्बमभीष्टे प्रियतमे दष्ट. वति सति । सह रुजा सरुक् । 'तेन सह-' इति बहुव्रीहिः । सहस्य सः । तेन सरुजेव सव्यथेनेव । 'स्त्री रुग्रुजा चोपताप' इत्यमरः । ताराण्युच्चैः क्रोशन्ति । कुतः । लोलानि चलानि वलयानि कङ्कणानि यस्य तरुण्याः करेण पर्यकूजि परि. कूजितम् । भावे लुङ् । सुहृदुःखाद्दुःखायन्ते सुहृद इति भावः । अत्र कङ्कणद्वारकस्य करकूजनस्य विधूननहेतुकस्य सरुजेवेति रुग्घेतुकत्वमुत्प्रेक्ष्यते ॥ केनचिन्मधुरमुल्बणरागं वाष्पतप्तमधिकं विरहेषु ।
ओष्ठपल्लवमपास्य मुहूर्त सुभ्रवः सरसमक्षि चुचुम्बे ॥५४ ॥ केनचिदिति ॥ केनचिद्रागिणा मधुरं रसवन्तमुल्बणरागमतिरक्तं तथापि विरहेष्वधिकं बाष्पेण विरहोष्मणा तप्तं सुभ्रुव ओष्ठपल्लवमपास्य सरसं सान्द्रशीतलमक्षि चुचुम्बे चुम्बितम् । अत्र तप्तत्वरसवत्त्वयोर्विशेषणगत्याधरत्यागाक्षिचुम्बनहेतुकं काव्यलिङ्गद्वयं सापेक्षत्वात्संकीर्यते ॥ एवं बाह्यसुरतमुक्त्वाभ्यन्तरसुरतवर्णनं प्रस्तौतिरेचितं परिजनेन महीयः केवलाभिरतदंपति धाम । साम्यमाप कमलासखविष्वक्सेनसेवितयुगान्तपयोधेः ॥५५॥
रेचितमित्यादि ॥ परिजनेन रेचितं रिक्तीकृतम् । अत एव केवलावेकाकिनावभिरतौ दंपती जायापती यस्मिंस्तत् । 'दंपती जंपती जायापती भार्यापती च तौ' इत्यमरः । राजदन्तादिषु जायाशब्दस्य जंभावो दंभावश्च विकल्पान्निपा