________________
२०२
शिशुपालवधे 'वदव्रज-' इत्यादिना सिचि वृद्धिः घत्वादिकार्यम् । तत्सेकादेवापरस्यास्तापोदया. तत्तापस्यैवात्राधानमुत्प्रेक्ष्यते । सा च व्यञ्जकाप्रयोगाद्गम्या ॥
संक्रान्तं प्रियतमवक्षसोऽङ्गरागं
साध्वस्याः सरसि हरिष्यतेऽधुनाम्भः । तुष्दैवं सपदि हृतेऽपि तत्र तेपे
कस्याश्चित्स्फुटनखलक्ष्मणः सपत्न्या ॥४१॥ संक्रान्तमिति ॥ प्रियतमवक्षसः सकाशात्संक्रान्तं गाढालिङ्गनात्कुचतटलग्नमस्याः सिक्ताया अङ्गरागमधुनैव सरसि अम्भः कर्तृ । साधु निःशेषं हरिष्यते प्रमा
यति एवं तुष्ट्वा इति बुवा सपदि तत्र तस्मिन्नङ्गरागे हृतेऽपि स्फुटनखलक्ष्मणो व्यक्तनखचिह्नायाः कस्याश्चिन्नायिकायाः संबन्धिनि सपन्या तेपे तप्तम् । भावे लिट् । तदिदमातपातस्य छायामन्विष्यतो दारुणदवदहनवेष्टनं यदङ्गरागमेव द्रष्टुमक्षमाया नखक्षतसाक्षात्कार इति । अत्र संतापशान्त्यर्थेन विपक्षाङ्गनाङ्गरागक्षालनेन तद्विरुद्धसंतापोत्पादनाद्विरुद्धकार्योत्पत्तिरूपो विषमालंकारः ॥
हूतायाः प्रतिसखि कामिनान्यनाम्ना
हीमत्याः सरसि गलन्मुखेन्दुकान्तेः । अन्तर्धिं द्रुतमिव कर्तुमश्रुवर्षे
भूमानं गमयितुमीषिरे पयांसि ॥ ४२ ॥ हूताया इति ॥ प्रतिसखि सख्याः समीपे । सखीसमक्षमित्यर्थः । समीपार्थेऽव्ययीभावे नपुंसकहस्वत्वे । कामिना प्रियेणान्यस्याः सपल्याः नाम्ना अन्यनाम्ना । सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः । हूतायाः अत एव गलन्मुखेन्दुकान्तेः हीमत्या लज्जितायाश्च । कस्याश्चिदिति शेषः । सरसि द्रुतं शीघ्रमन्तर्धिमन्तर्धानम् । श्रदन्तरोरुपसर्गवत्तिवचनात् 'उपसर्गे घोः किः' इति किप्रत्ययः । कर्तु. मश्रुवर्षेः कर्तृभिः । पयांसि सरोजलानि भूमानं गमयितुं वृद्धि प्रापयितुम् । 'गतिबुद्धि-' इत्यादिना अणिकर्तुः कर्मत्वं प्राधान्यादभिधानं च। ईपिरे इव इष्टानि किमु इत्युत्प्रेक्षेयमश्रुपातनिमित्ता। तथा मरणदुःखादपि दुःसहं सपत्या दुःखमिति वस्तुध्वनिः ॥
सिक्तायाः क्षणमभिषिच्य पूर्वमन्या
मन्यस्याः प्रणयवता बताबलायाः । कालिम्ना समधित मन्युरेव वक्र
प्रापाक्ष्णोर्गलदपशब्दमञ्जनाम्भः ॥४३॥ सिक्ताया इति ॥ प्रणयवता प्रियेण क्षणं पूर्वमन्यां सपनीमभिषिच्य पश्चासिक्ताया अन्यस्या अबलायाः स्त्रिया वक्त्रं कर्म मन्युः कोप एव कर्ता । कालिम्ना