________________
सर्गः ।
अष्टमः
कृतकोपादात्मीयं वक्षोजद्वयं पृथुतरेण नेत्रयुग्मेन मुक्तैरम्भोभिर्वाप्पैर्मुहुरसिचदभिferent | तन्मत्सरादिवेति भावः । अतो वस्तुनालंकारध्वनिः । 'लिपिसिचिह्नश्व' इति सिञ्चतेर्लुङि चलेरङादेशः ॥
कुर्वद्भिर्मुखरुचिमुज्ज्वलामजस्रं यस्तोयैरसिचत वल्लभां विलासी । तैरेव प्रतियुतेरकारि दूराकालुष्यं शशधरदीधितिच्छाच्छैः ॥ ३८ ॥
२०१
कुर्वद्भिरिति ॥ मुखचं मुखकान्ति उज्वलां कुर्वद्भिर्यैस्तोयैर्विलासी विलसनशीलः कामी । 'वौ कपलस-' इत्यादिना घिनुण् प्रत्ययः । वल्लभामजस्रमसि - चत सिक्तवान् । स्वरितेत्त्वादात्मनेपदम् । 'आत्मनेपदेष्वन्यतरस्याम्' इति सिञ्चतेलुङि च्लेरङादेशः । शशधरदीधितिच्छटाच्छैः शशिकरनिकरस्वच्छैस्तैरेव तोयैर्दूराप्रतियुतेः सपत्न्याः कालुष्यमाविलत्वं वैवर्ण्यं चाकारि । स्वच्छतोयैः कालुष्यं कृतमिति विरुद्धकार्योत्पत्तिरूपो विषमभेदः । तच्चान्यत्रेत्यसंगतिः वैवर्ण्यकालुष्ययोरभेदाध्यवसायादतिशयोक्तिस्तदुत्यापित संकरः ॥
1
रागान्धीकृतनयनेन नामधेय - व्यत्यासादभिमुखमीरितः प्रियेण । मानिन्या वपुषि पतन्निसर्गमन्दो
भिन्दानो हृदयमसाहि नोदवज्रः ।। ३९ ।।
रागेति ॥ रागेण विपक्षानुरागेणान्धीकृतनयनेन प्रियेण नामधेयव्यत्यासाद्विपक्षनामपूर्वकमभिमुखमीरितः क्षिप्तो वपुषि पतन्निसर्गमन्दः स्वभावजडः तथापि हृदयं भिन्दानो विदारयन्नुदकमेव वज्रोऽशनिरुद्रवज्रः । 'मन्थौदन -' इत्यादिना विकल्पदादेशः । मानिन्या विपक्षनामग्रहणजनितकोपवत्या नायिकया नासाहि न सोढः । नीक्ष्णयोगादतीक्ष्णमपि तीक्ष्णं भवतीति भावः । उदवज्र इति केवलनिरवयवरूपकम् ॥
प्रेम्णोरः प्रणयिनि सिञ्चति प्रियायाः संतापं नवजलविप्रुषो गृहीत्वा । उद्भूताः कठिनकुचस्थलाभिघाता
दासन्नां भृशमपराङ्गनामधाक्षुः ॥ ४० ॥
प्रेम्णेति ॥ प्रणयिनि प्रेम्णा प्रियाया उरः सिञ्चति सति कठिनकुचस्थलाभिबातादुद्धूता उत्पतिता नवजलस्य विप्रुपो बिन्दवः । 'पृपन्तिविन्दु पृषताः पुमांसो विषः स्त्रियाम्' इत्यमरः । तस्याः सिन्तायाः संतापं गृहीत्वा आदायासन्नां समीपस्थामपराङ्गनां सपत्नीं भृशमधाक्षुः संतापयन्ति स्म । दहतेलुङि