________________
२००
शिशुपालवधे
स्वार्थे ष्यन्प्रत्ययः । 'लवणो रसरक्षोब्धिभेदेषु लवणा विषि' इति विश्वः । यद्वा-'मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥' तस्य श्रीः संपत्तस्याः शेषमतिरिक्तम् । शरीरसंपदवशिष्टमिति यावत् । 'शेषः संकर्षणेऽनन्त उपयुक्तेतरेऽन्यवत्' इति विश्वः । तदिवावागलदपतत् । शेषमिति गुणनिमित्तजातिस्वरूपोत्प्रेक्षा ॥
स्निह्यन्ती दृशमपरा निधाय पूर्ण
मूर्तेन प्रणयरसेन वारिणेव । कंदर्पप्रवणमनाः सखीसिसिक्षा
लक्ष्येण प्रतियुवमञ्जलिं चकार ॥ ३५ ॥ स्त्रिान्तीति ॥ कंदर्पप्रवणमनाः स्मरपरवशचित्ता अत एव दृशं निधाय पुंस्येव दृष्टिं कृत्वा नियन्ती । दृष्टिविशेषेण स्नेहं प्रकाशयन्तीत्यर्थः । अपरा स्त्री सख्याः सिसिक्षा सेक्तुमिच्छा तस्या लक्ष्येण व्याजेन बद्धाञ्जलिरेव तिष्ठन्ती न तु सिञ्चन्तीति द्योतनाय सिसिक्षेतीच्छायां सनः प्रयोगः । प्रतियुवं युवानं प्रति । 'अनश्च' इत्यव्ययीभाव समासान्तः । मूर्तेन मूर्तिमता प्रणयरसेनेत्युस्प्रेक्षा । पाठादर्थस्य बलीयस्त्वादिवशब्दस्य व्यवहितेनान्वयः । वारिणा पूर्णम अलिं चकार । प्रार्थयामासेत्यर्थः ॥
आनन्दं दधति मुखे करोदकेन
श्यामाया दयिततमेन सिच्यमाने । ईर्ण्यन्त्या वदनमसिक्तमप्यनल्प
खेदाम्बुस्लपितमजायतेतरस्याः॥ ३६ ॥ आनन्दमिति ॥ आनन्दं दधति प्रियसंभावनया हर्ष दधाने श्यामाया मध्य. मयौवनायाः स्त्रियः । 'श्यामा यौवनमध्यस्था' इत्युत्पलः । मुखे वदने दयिततमेन अतिशयेन दयितः प्रियः । अतिशये तमप्प्रत्ययः । तेन का करोदकेनाञ्जलिजलेन सिच्यमाने इति ईय॑न्त्या असहमानायाः। 'परोत्कर्षाक्षमा स्यात्' इति लक्षणात् । इतरस्याः सपल्या वदनमसिक्तमपि । प्रियेणेति शेषः । अनल्पेन स्वेदाम्बुना नपितं सिक्तमजायताभवत् । ईर्ष्याकृतकोपकार्यत्वात्स्वेदादीनामिति भावः । असिक्तमपि सिक्तमिति विरोधः । तस्य स्वेदाख्यकारणोक्तेराभासत्वम् ॥
उद्वीक्ष्य प्रियकरकुमलापविद्धै
वक्षोजद्वयमभिषिक्तमन्यनार्याः। अम्भोभिर्मुहुरसिचद्वधूरमां
दात्मीयं पृथुतरनेत्रयुग्ममुक्तैः ॥ ३७॥ उद्वीक्ष्येति ॥ प्रियस्य करकुड्मलाभ्यां पाणिपुटाभ्यामपविद्धैः सिक्तैरम्भोभि. रभिषिक्तम् । अन्यनार्याः सपत्न्या वक्षोजद्वयमुद्रीक्ष्य वधूर्नायिका अमर्षादीर्ध्या