________________
अष्टमः सर्गः।
१९९
ताः कान्तैः सह करपुष्करेरिताम्बु
व्यात्युक्षीमभिसरणग्लहामदीव्यन् ॥ ३२ ॥ मुग्धत्वादिति ॥ मुग्धत्वान्मूढत्वादविदिताः कैतवप्रयोगा मुखसेचनादिकपटाचरणानि याभिस्ताः, अत एव सपदि पराजयं गच्छन्त्यस्तास्तरुण्यः कान्तैः सहाभिसरणं स्वयमभिगमनं ग्लहो द्यूतं पणो यस्यास्ताम् । 'पणोऽक्षेषु ग्लहः' इत्यमरः । 'अक्षेपु ग्लहः' इति ग्रहेरेवाक्षपणे लत्वनिपातः। अपूप्रत्ययस्तु 'गृहवृदृनिश्चिगमश्च' इत्येव सिद्ध इति केचित् । अन्ये तु ग्लहिं प्रकृत्यन्तरमङ्गीकृत्याप्प्रत्ययस्यैव निपातो घनपवादीत्याहुः। करपुष्करैः करकमलैरीरितैरम्बुभिया व्यात्युक्षी व्यतिहारेणोक्षणम् । परस्पराभ्युक्षणमित्यर्थः । 'कर्मव्यतिहारे णच् स्त्रियाम्' इति णच्प्रत्ययः । ‘णचः स्त्रियामञ्' इति स्वार्थिकोऽप्रत्ययः । 'टिड्डाणञ्-' इत्यादिना डीयू । तां व्यात्युक्षीनदीव्यन् । तया अक्रीडन्नित्यर्थः । 'दिवः कर्म च' इति विकल्पात्कर्मत्वम् । अत्राविदितकैतवप्रयोगस्य विशेषणगत्या पराजयहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः॥
योग्यस्य त्रिनयनलोचनानलार्चि
निर्दग्धस्सरपृतनाधिराज्यलक्ष्म्याः । कान्तायाः करकलशोधतैः पयोभि
क्रन्दोरकृत महाभिषेकमेकः ॥ ३३ ॥ योग्यस्येति ॥ त्रिनयनस्यम्बकः । 'शुभ्नादिषु च' इति निषेधात् 'पूर्वपदासंज्ञायाम्' इति णत्वाभावः। तस्य लोचनानलार्चिषा निर्दग्धस्य स्मरस्य याः. गृतनास्तासामाधिराज्यमाधिपत्यं तदेव लक्ष्मीस्तस्या योग्यस्याहस्य । त्रैलोक्यविजयिनः स्थाने तादृशस्यैव स्थाप्यत्वादिति भावः। कान्ताया वक्रेन्दोः। स्मरसखत्वादस्येति भावः । करावञ्जलिरेव कलशस्तनोद्यतैरुत्क्षिप्तैः पयोभिर्महाभिषेकमेकः कश्चिन्कामी अकृत कृतवान् । करोते ङि तङ् । 'तनादिभ्यस्तथासोः' इति सिचो लुक् । अत्र जलक्रीडासेके महाभिषेकत्वोत्प्रेक्षा प्रतीयमानकरकलशेति रूपकानुप्राणितेति संकरः ॥ सिञ्चन्त्याः कथमपि बाहुमुन्नमय्य
प्रेयांसं मनसिजदुःखदुर्बलायाः । सौवर्णं वलयमवागलत्कराग्रा__लावण्यश्रिय इव शेषमङ्गनायाः ॥ ३४ ॥ सिञ्चन्त्या इति ॥ मनसिजदुःखेन स्मरपीडया दुर्बलाया अत एव कथमपि बाहुमुन्नमय्योद्यम्य प्रेयांसं प्रियतमम् । 'प्रियस्थिर-' इत्यादिना प्रादेशः । सिञ्चन्त्याः स्नपयन्त्या अङ्गनायाः कराग्रात्सौवर्ण हिरण्मयं वलयं कंकणम् । 'कंकणं वलयोऽस्त्रियाम्' इत्यमरः । लवणैव लावण्यं कान्तिविशेषः । चातुर्वर्ण्यादित्वा