________________
अष्टमः सर्गः 1
२०३
1
काण्यैन । वैवयेन सहेति यावत् । समधित संदधे । बतेति खेदे | संपूर्वाह वातेः कर्तरि लुङि त 'स्थाध्वोरिच' इतीकारः । सिचः कित्त्वान्न गुणः । 'हस्वादङ्गात्' इति सकारलोपः । गलत्ववदक्ष्णोः संबन्धि अञ्जनाम्भः कज्जलोदकमपशब्द वर्णस्यापवादं प्राप । कोपकालिमतिरोधानेन स्वकालिन एव प्रकाशनादिति भावः । पूर्वेण वाक्यार्थेनोत्तरवाक्यार्थसमर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गम् ॥
उद्घोढुं कनकविभूषणान्यशक्तः सनीचा वलयितपद्मनालसूत्रः । आरूढप्रतिवनिताकटाक्षभारः
साधीयो गुरुरभवद्भुजस्तरुण्याः ॥ ४४ ॥
उद्वोदुमिति ॥ कनकविभूषणान्युद्वोढुमशक्तः । सौकुमार्यादिति भावः । अत एव सहाञ्चतीति सध्र्यङ् तेन सहचरेण कर्त्रा । ऋत्विगादिना क्विन्प्रत्ययः । 'सहस्य सधिः' इति सहशब्दस्य सध्यादेशः 'अनिदिताम् -' इति नकारलोपः 'अ:' इत्यकारलोपे 'चौ' इति दीर्घः । वलयितानि वलयीकृतानि पद्मनालसूत्राणि मृणालतन्तवो यस्य सः । मृणालकृतकङ्कण इत्यर्थः । तथापि आरूढः आरूढवान् प्रतिवनितायाः सपत्याः कटाक्ष एव भारो यस्य सः । तया सासूयं दृष्ट इत्यर्थः । अत एव तरुण्या भुजो बाहुः साधीयो बाढतरमिति क्रियाविशेपणम् । 'अन्तिकबादयोर्नेदसाधौ' इति बाढशब्दस्य साधादेशः । गुरुर्भीरवान्, श्लाध्यश्चाभवत् । अत्र कनकभूषणाभावेऽपि तत्कार्यगुरुत्ववर्णनाद्विभावना सा च गुरुरिति श्लेपप्रतिभोत्थापिता तिशयोक्त्यनुप्राणितेति संकरः ॥
आबद्धप्रचुरपरार्ध्यकिंकिणीको
रामाणामनवरतोदगाह भाजाम् ।
नारावं व्यतनुत मेखलाकलापः
कस्मिन्वा सजलगुणो गिरां पटुत्वम् ।। ४५ ।।
आवद्धेति ॥ उदकस्य गाहोऽवगाहनं उदगाहः । ' मन्थौदन -' इत्यादिनोदादेशः । तमनवरतं भजन्ति यास्तासामनवरतोदगाहभाजां रामाणां स्त्रीणां संबन्धी आबद्धाः प्रोता: प्रचुरा भूयिष्ठाः परार्थ्याः श्रेष्ठाश्च किंकिण्यो यस्मिन्स तथोक्तः । ‘नद्युतश्च' इति कप् । मेखलाकलाप आरावं ध्वनिं न व्यतनुत । तथा हि । जलेन सह सजलो जलाद्वौ गुणः सूत्रं यस्य सः । तथा डलयोरभेदाजडगुणो जडधमों जाड्यं तेन सहेति सजगुणो जश्च तस्मिन् कस्मिन्वा मेखलाकलापे पुंसि वा गिरां वाचां ध्वनीनां च पटुत्वं सामर्थ्यम् । न कुत्रापीत्यर्थः । श्लेपमूलाभेदातिशयोक्त्यनुप्राणितोऽयमर्थान्तरन्यासः ॥
पर्यच्छे सरसि हतेंऽशुके पयोभिलीलाक्षे सुरतगुरावपत्रपिष्णोः ।