________________
२०४
शिशुपालवधे सुश्रोण्या दलवसनेन वीचिहस्त
न्यस्तेन द्रुतमकृताजिनी सखीत्वम् ॥ ४६ ॥ पर्यच्छ इति ॥ परि परितोऽच्छं स्वच्छम् । अन्तर्गतवस्त्वतिरोधायकमित्यर्थः । तस्मिन्सरसि पयोभिरंशुके स्त्रीपरिधाने हृते स्थानादपसारिते सति सुरतगुरौ रमणे च लोलाक्षे । श्रोण्यासक्तदृष्टौ सतीत्यर्थः । 'लोलश्चलसतृष्णयोः' इत्यमरः । 'बहुव्रीही सक्थ्यक्ष्णोः स्वाङ्गात्षच्' । अपत्रपिष्णोरपत्रपमाणायाः। 'लजा सापजपान्यतः' इत्यमरः । 'अलंकृञ्-' इत्यादिना इष्णुप्रत्ययः । सुश्रोण्याः प्रियायाः प्रस्तुतोचितनिर्देशोऽयम् । अजिनी नलिनी द्रुतं वीचिरेव हस्तस्तेन न्यस्तेन दलं पर्णमेव वसनं तेन । तदानेनेत्यर्थः । सखीत्वमकृत । सखीकृत्यं चकारेत्यर्थः । अनाजिन्यादिषु सखीत्वाद्यारोपात्समस्तवस्तुवृत्ति सावयवरूपकम् ॥
नारीभिर्गुरुजघनस्थलाहताना
मास्यश्रीविजितविकासिवारिजानाम् । लोलत्वादपहरतां तदङ्गरागं
संजज्ञे स कलुष आशयो जलानाम् ॥ ४७ ॥ नारीभिरिति ॥ नारीभिः कर्तीभिः गुरुजघनस्थलैराहतानाम् आस्यश्रीभिमुखशोभाभिर्विजितानि विकासीनि वारिजानि पद्मानि येषां तेषां लोलत्वाञ्चलत्वात्सतृष्णत्वाच्च । 'लोलश्चलसतृष्णयोः' इत्यमरः । तासामङ्गरागमपहरतां क्षाल. यतां च जलानां तोयानां जडानां च स आशयो हृदो हृदयं च कलुषोऽप्रसन्नः क्षुभितश्च संजज्ञे संजातः । अपहर्तुस्ताडनस्वहरणादिभिराशयः कलुषो भवतीति ध्वनिः । अभिधायाः प्रकृतार्थे नियन्त्रणान्न श्लेषः ॥
सौगन्ध्यं दधदपि काममङ्गनानां
दूरत्वाद्गतमहमाननोपमानम् । नेदीयो जितमिति लजयेव तासा
मालोले पयसि महोत्पलं ममज ॥४८॥ सौगन्ध्यमिति ॥ कामं पर्याप्तं सौगन्ध्यं सुरभिगन्धित्वं संबन्धित्वं च। गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः' इति विश्वः । दधदपि अहं दूरत्वात्पूर्वं . दूरस्थत्वादङ्गनानामाननोपमानं मुखसादृश्यं गतम् । 'दूरस्थाः पर्वता रम्याः' इतिवदिति भावः । संप्रति पुनस्तासां नेदीयो नेदिष्ठमन्तिकतमं सत् । 'अन्तिकबाढ. योर्नेदसाधौ' इत्यन्तिकशब्दस्य नेदादेशः । जितं परिभूतमभूवमिति लजयेव महो. त्पलमरविन्दमालोले. चले पयसि ममज । यथा 'दूरे साम्येन दृश्यमानः संबन्धी संनिधाववमानितः क्वचिल्लज्जया निलीयते तद्वदिति । अत्र पयश्चलनकृतेऽब्लमजने लजाहेतुकत्वमुत्प्रेक्ष्यत इति श्लेषमूलातिशयोक्तिहेतूत्प्रेक्षयोः संसृष्टिः ॥