SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः। २०५ प्रभ्रष्टैः सरभसमम्भसोऽवगाह क्रीडाभिर्विदलितयूथिकापिशङ्गैः । आकल्पैः सरसि हिरण्मयैर्वधूना ___ मौर्वाग्निद्युतिशकलैरिव व्यराजि ॥४९॥ प्रभ्रष्टैरिति ॥ सरभसं ससस्वरम् अम्भसोऽवगाहा एव क्रीडास्ताभिः प्रभ्र. ष्टैर्जलावगाहक्षोभादम्भसि च्युतैर्विदलिता विकसिता यूथिकाः पीतयूथिका हेमपुष्पिकापर्याया विवक्षिताः, अन्यथा पिशङ्गत्वायोगात् । 'गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका' इत्यमरः । तद्वपिशङ्गैर्हिरण्मयैः सौवर्णैः । 'दाण्डिनायन-' इत्यादिना निपातः । वधूनामाकल्पैर्भूषणैः सरसि और्वाग्निद्युतिशकलैर्जलाशयत्वादत्रापि संनिहितैर्वडवानलज्वालाखण्डैरिवेत्युत्प्रेक्षा । व्यराजि विराजितम् । भावे लुङ् ॥ आसाकी युवतिदृशामसौ तनोति ___ छायैव श्रियमनपायिनी किमेभिः । मत्वैवं स्वगुणपिधानसाभ्यसूयैः पानीयैरिति विदधाविरेऽञ्जनानि ॥ ५० ॥ आस्माकीति ॥ अस्माकमियमास्माकी अस्मदीया । अस्मत्कारितेत्यर्थः । 'युष्मदस्मदोरन्यतरस्यां खञ्च' इवि चकारादण्प्रत्ययः। 'तस्मिन्नणि च युष्माकास्माकौ' इति प्रकृतेरमाकादेशः 'टिड्डाणञ्-' इत्यादिना ङीप् । असौ छाया कान्तिः । विमलेति यावत् । सैव युवतिदृशामनपायिनी स्थायिनीं श्रियं तनोति एभिरञ्जनैः किमेतत्साध्यम् । न किंचिदस्तीत्यर्थः। गम्यमानसाधनापेक्षया करणत्वात्तृतीयेत्युक्तं प्राक् । एवं मत्वा । उक्तप्रकारेणाञ्जनवैफल्यं निश्चितेत्यर्थः । अत एव गम्योत्प्रेक्षेयम् । स्वगुणस्य स्वाविष्कृतदृनैर्मल्यगुणस्य पिधानम् । 'अपिधानतिरोधानपिधानाच्छादनानि च' इत्यमरः । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यकारलोपः । तेन साभ्यसूयैः सेयः पातुमर्हः पानीयैः । 'अम्भो. ऽर्णस्तोयपानीयनीरक्षीराम्बु शम्बरम्' इत्यमरः । 'तव्यत्तव्यानीयरः' इति पिबतेरनीयर् प्रत्ययः । अञ्जनानि कजलानि इति अनेन स्वगुणप्रकाशनयोग्यतया विवक्षितेन प्रकारेण । निःशेषत्वरूपेणेत्यर्थः । विदधाविरे विधौतानि । क्षालितानीत्यर्थः । 'धावु गतिशुद्ध्योः' इति धातोः कर्मणि लिट् ॥ निधौते सति हरिचन्दने जलौधै रापाण्डोर्गतपरभागयाङ्गनायाः। अह्नाय स्तनकलशद्वयादुपेये विच्छेदः सहृदययेव हारयष्ट्या ॥ ५१ ॥ शिशु० १८
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy