________________
२०६
शिशुपालवधे निधौते इति ॥ हरिचन्दने रक्तचन्दने जलौधैर्निधौते क्षालिते सति । धावेः कर्मणि क्तः । 'छोः शूडनुनासिके च' इति वकारस्योठादेशः। 'एत्येधत्यम्स' इति वृद्धिरौकारः । आपाण्डोः पाण्डुवर्णादङ्गनायाः स्तनकलशद्वयात् गतपरभा. गया सावाद्विगतवर्णोत्कर्षया । अत एव सामान्यालंकारः । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता' इति लक्षणात् । हारयष्ट्या का सहृदयया सचित्तये. वेत्युत्प्रेक्षा । निजपरभागहानिपरिज्ञानवत्येवेत्यर्थः । अह्राय सपदि । 'साक् झटित्यासाहाय दाङ् मंच सपदि द्रुते' इत्यमरः । विच्छेदस्फुटनमुपेये प्राप्तः । हीन. जीवनादजीवनमेव वरमिति भावः । उपपूर्वादिणः कर्मणि लिट् । विक्षोभहेतुकस्य हारविच्छेदस्य सहृदयहेतुकत्वोत्प्रेक्षा सा चोक्तसामान्योत्थापितेति संकरः ॥
अन्यून गुणममृतस्य धारयन्ती
संफुल्लस्फुरितसरोरुहावतंसा । प्रेयोभिः सह सरसी निषेव्यमाणा
रक्तत्वं व्यधित वधूदृशां सुरा च ॥५२॥ अन्यनमिति ॥ अन्यून समग्रममृतस्य पीयूषस्य गुणं माधुर्यादिकं धारयन्ती। अगन्धमव्यक्तरसं शीतलं च तृषापहम् । अच्छं लघु च पथ्यं च तोयं गुणवदुच्यते ॥' इति उक्तोदकगुणं च धारयन्ती सरसी। पक्षे 'अमृतं यज्ञशेषे स्यात्पीयूषे सलिले ध्रुवम्' इति विश्वः । संफुल्लानि विकचानि । उत्फुल्लसंफुल्लयोरुपसंख्यानान्निष्टातस्य लत्वम् । स्फुरितान्युज्वलानि च यानि सरोरुहाण्येकत्र सहजानि, अन्यत्र संस्कारार्थ क्षिप्तानि तान्यवतंसो भूषणं यस्याः सा तथोक्ता । प्रेयोभिः सह निषेव्यमाणा । स्नानपानाभ्यामिति भावः । सरसी पुष्करिणी वधूदृशां रक्तत्वमारुण्यं व्यधित विधत्ते स्म । तथा सुरा च । व्यधितेति धाजः कर्तरि लुङि तङ् । इहोत्साहवर्धनाय मुहुः सेव्यत्वाच्छृङ्गाणीति श्लोके सलिलक्रीडासंभारेषु माकमिति परिगणनाच्च सरसीवत्सुराया अपि प्रकृतत्वविवक्षायां तुल्ययोगिता तदविवक्षायां तु दीपकम् । सुरेवेति पाठे स्वप्रकृतविवक्षैव कार्या । अन्यथा उपमानुपमा स्यात् । न च तुल्ययोगितावकाशः । इवशब्देन गम्यौपज्यलक्षणभङ्गादिति ॥
नान्तीनां बृहदमलोदविन्दुचित्रौ
रेजाते रुचिरदृशामुरोजकुम्भौ । हाराणां मणिभिरुपाश्रितौ समन्ता
दुत्सूत्रैर्गुणवदुपनकाम्ययेव ॥ ५३॥ स्मान्तीनामिति ॥ स्नान्तीनां जलमवगाहमानानां रुचिरदृशां सुदृशां संबनिधनौ बृहद्भिरमलैश्चोदबिन्दुभिश्चित्रौ । 'मन्थौदन-' इत्यादिनोदकशब्दस्योदा. देशः । उरोजकुम्भौ उत्सूत्रैहीराणां मुक्ताहाराणां मणिभिर्गुटिकाभिरुपहन्यते उपगम्यते, पीड्यते वा। 'उपन्न आश्रये' इति हन्तेरप्प्रत्ययान्त उपधालोपीति निपातः। गुणवत औदार्यादिगुणवतः, सूत्रवतश्च उपनस्य काम्या आत्मन इच्छा गुणवदुपन.