________________
अष्टमः सर्गः।
२०७ काम्या तया गुणवदुपनकाम्यया । आत्मनो गुणवदाश्रयाकाङ्क्षयेत्यर्थः । 'काम्यच्च' इति काम्यच्प्रत्यये प्रत्ययान्तधातुत्वात् 'अप्प्रत्ययात्' इति स्त्रियामप्प्रत्यये टाप् । समन्तादुपाश्रितौ संश्रिताविव रेजाते राजेते स्म । 'फणां च सप्तानाम्' इति विकल्पादेकाराभ्यासलोपौ। गुणवच्छब्देन सूत्रशब्देन च सूत्रभेदे सूत्रान्तरमशिश्रियदिति प्रतीतेः श्लेषानुप्राणितयातिशयोक्त्यानुप्राणितेयमुत्प्रेक्षा ॥
आरूढः पतित इति स्वसंभवोऽपि
स्वच्छानां परिहरणीयतामुपैति । कर्णेभ्यश्युतमसितोत्पलं वधूनां
वीचीभिस्तटमनु यनिरासुरापः॥५४॥ आरूढ इति ॥ स्वसंभवोऽप्यात्मसंभवोऽपि आरूढ उच्चस्थानगत उत्तमाश्रयश्च पतितस्तथा भ्रष्ट इति हेतोः। आरूढपतितत्वादित्यर्थः । स्वच्छानां निर्मलानां परिहरणीयतां त्याज्यत्वमुपैति । 'प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकः' इति स्मरणादिति भावः । वीचीभिस्तटमनु तटंप्रति निरासुश्चिक्षिपुः । कुतः । यस्मादापः वधूनां कर्णेभ्यश्युतमसितोत्पलम् । स्वसंभवमपीति भावः । विशेषेण सामान्यस. मर्थनरूपोऽर्थान्तरन्यासः समर्थनवाक्यगतश्लेषमूलातिशयोक्त्या संकीर्णः ॥
दन्तानामधरमयावकं पदानि
प्रत्यग्रास्तनुमविलेपना नखाङ्काः। आनिन्युः श्रियमधितोयमङ्गनानां
शोभायै विपदि सदाश्रिता भवन्ति ॥ ५५ ॥ दन्तानामिति ॥ तोयेष्वधि अधितोयम् । विभक्त्यर्थेऽव्ययीभावः । अङ्गनानामयावकं प्रक्षालितलाक्षारागमधरं दन्तानां पदानि दन्तक्षतानि । तथा अविले. पनां धौताङ्गरागां तनुं शरीरं प्रत्यग्रा नवा नखाङ्काश्च श्रियमानिन्युः प्रापयामासुः। 'नीवह्योहरतेश्चैव' इति वचनाविकर्मकत्वम् । तथाहि सतः सज्जनान, सुन्दरांश्चाश्रिताः सदाश्रिताः ये केचिदिति शेषः । विपदि विभवाभावकालेऽपि शोभायै वैभवाय भवन्ति । 'क्लपः संपद्यमाने चतुर्थी वक्तव्या' इति क्लुपेरर्थनिर्देशाचतुर्थी । अर्थान्तरन्यासः॥
कस्याश्चिन्मुखमनु धौतपत्रलेखं ___व्यातेने सलिलभरावलम्बिनीभिः । किंजल्कव्यतिकरपिञ्जरान्तराभि
श्चित्रश्रीरलमलकारवल्लरीभिः ॥५६॥ कस्याश्चिदिति ॥ धौतपत्रलेखं क्षालितपत्रावलीकं कस्याश्चिन्मुखमनु मुखेन संबद्धं यथा तथा । मुखे इति यावत् । 'तृतीयार्थे-' इत्यनोः कर्मप्रवचनीयत्वाद्वितीया। सलिल भरेणावलम्बिनी मिर्लम्बमानाभिः। आर्जवं गताभिरित्यर्थः ।