________________
२५६
शिशुपालवधे ऊरुमूलचपलेक्षणमनन्यैर्वतंसकुसुमैः प्रियमेताः। चक्रिरे सपदि तानि यथार्थं मन्मथस्य कुसुमायुधनाम ॥६७॥ ऊर्विति ॥ एताः स्त्रिय ऊरुमूले चपलेक्षणं लोलचक्षुषं प्रियं यैर्वतंसकुसुमैः कर्णावतंसपुष्पैः । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यकारलोपः। अनन्नताडयन् । हन्तेर्लङ् । 'गमहन-' इत्यादिनोपधालोपः। 'हो हन्तेः-' इति कुत्वम् । तानि वतंसकुसुमानि सपदि मनो मनातीति मन्मथः । पृषोदरादित्वात्साधुः । तस्य मन्मथस्य कुसुममायुधं यस्येति कुसुमायुध इति यन्नाम तद्यथार्थं चक्रिरे चक्रुः । तदा तेषां तत्कार्यकारित्वादिति भावः । अत्र वतंसेप्वारोप्यमाणस्य मन्मथायुधत्वस्य प्रकृतोपयोगात्परिणामालंकारः ॥
धैर्यमुल्वणमनोभवभावा वामतां च वपुरर्पितवत्यः। वीडितं ललितसौरतधाष्टास्तेनिरेऽभिरुचितेषु तरुण्यः ॥६॥
धैर्यमिति ॥ तरुण्यो रमण्यः उल्बण उद्विक्तो मनोभवभावो रतिरागो यासां ता अपि अभिरुचितेषु प्रियेषु धैर्यमौदासीन्यं तेनिरे । वपुः स्वाङ्गमर्पितवत्यो यथेष्टकरणाय दत्तवत्योऽपि वामतां च तेनिरे । ललितं मनोहरं सौरतं सुरतसंबन्धि धाय प्रागल्भ्यं यासां तास्तथापि व्रीडितं ब्रीडां तेनिरे । इह स्त्रीणां रहसि रागाङ्गार्पणधार्ष्यादिगुणा अप्यागन्तुकतया सहजधैर्यवक्रताव्रीडितैः पुनःपुनः प्रतिबध्यन्त एवेति भावः । अत्र रागादीनां धैर्यादिभिः सह समावे. शविरोधस्य सहजागन्तुकाभ्यामाभासीकरणाद्विरोधाभासोऽलंकारः, धैर्यादिगुणसमुच्चयात्समुच्चयालंकारश्चेति संकरः ॥ पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरसितगर्भाः। कामिनः स्म कुरुते करभोर्हारि शुष्करुदितं च सुखेऽपि॥६९॥ पाणीति ॥ 'मणिबन्धादाकनिष्टं करस्य करभो बहिः' इत्यमरः। करभ इव ऊर्यस्याः सा करभोरूः स्त्री । 'ऊरूत्तरपदादौपम्ये' इत्यूप्रत्ययः । अविरोधितवाञ्छमनिवारितप्रियमनोरथं यथा तथा कामिनः पाणिरोधं नीवीमोक्षणे व्यापृतस्य प्रियपाणेनिवारणं कुरुते स्म । तथा मधुरं मनोहरं सितं गर्भेऽन्तवर्ति यासु ता मन्दहासमिश्राः भर्त्सनास्तर्जनाश्च कुरुते स्म । तथा सुखेऽपि अधरपीडनादौ सुखातिरेके सत्यपि हारि मनोहारि शुष्करुदितमनश्रुत्वादना कृत्रिमरोदनं च कुरुते स्म । स्त्रीणामेष स्वभावो यदिष्टमप्यनिष्टतया निवारयन्त्य एव सुरतसुखमुपभुञ्जत इत्यर्थः । अत्र सुखेऽपि दुःखवदुपचारात्कुट्टमिता. ख्योऽनुभावो द्रष्टव्यः । 'केशाधरादिग्रहणे मोदमानेऽपि मानसे । दुःखितेव बहिः कुप्येद्यत्र कुट्टमितं हि तत् ॥' इति लक्षणात् ॥
वारणार्थपदगद्गदवाचामीग्रंया मुहुरपत्रपया च । कुर्वते स सुदृशामनुकूलं प्रातिकूलिकतयैव युवानः ॥ ७० ॥