________________
दशमः सर्गः।
२५५ भ्रूयुगेण रोमभिश्च । 'कर्तरि तृतीया' इति तृतीया । सपदि समं युगपदेव विभेदो भङ्गो हर्षश्च प्रतिपेदे प्राप्तः । अत्र मानवत्वात्कामिनीत्वाच्च नीविस्पर्श युगपदमर्पहर्षयोरुदयात्तदनुभावयोरपि युगपदाविर्भाव इति भावः । अत्र भ्रमगरोमाञ्चक्रिययोः समुच्चयात्समुच्चयभेदः । स च विभेद इति श्लेषप्रतिभोत्थापिताभेदाध्यवसायमूलातिशयोक्त्यनुप्राणित इति संकरः ॥
आशु लडितवतीष्टकराग्रे नीविमर्धमुकुलीकृतदृष्ट्या । रक्तवैणिकहताधरतत्रीमण्डलक्वणितचारु चुकूजे ॥६४ ॥
आश्विति ॥ इष्टस्य प्रियस्य कराग्रे नीविं वस्त्रग्रन्थिमाशु हठाल्लचितवत्यतिक्रान्तवति । ऊरुमूलं गते सतीत्यर्थः । अर्धमुकुलीकृतदृष्ट्या सुखपारवश्यादर्धनिमीलिताक्ष्या स्त्रिया रक्तो रक्तकण्ठः स्वयं गानकुशलः । वीणा शिल्पमस्य वैणिको वीणावाद्यनिपुणः । 'शिल्पम्' इति ठक् । रक्तेन वैणिकेन यन्त्रगानकुशलेन हतं वादितं यदधरतन्त्रीणां मण्डलं समूहः बहुतन्त्रीकस्वरमण्डलादिभेदस्तस्य क्वणितमिव चारु यथा तथा चुकूजे कूजितम् । भावे लिट् । अधरग्रहणं तन्त्रीमाधुर्यातिशयात् । स्पर्शसुखातिरेकार्थ तन्त्रीकण्ठस्वरव्यतिकरमनोहरः कोऽपि रससर्वस्वभूतः कण्ठकूजितविशेषः कृत इत्यर्थः । अत एव रक्तवैणिकहतेति विशेषणम् । ऋणितचार्वित्युपमालंकारः ॥
आयताङ्गुलिरभूदतिरिक्तः सुभ्रुवां क्रशिमशालिनि मध्ये ।
श्रोणिषु प्रियकरः पृथुलासु स्पर्शमाप सकलेन तलेन ॥६५॥ __ आयतेति ॥ आयता अङ्गुलयो यस्य स प्रियकरः। कृशस्य भावः ऋशिमा कार्यम् । 'पृथ्वादिभ्य इमनिच्' । 'र ऋतो हलादेलघोः' इति रेफादेशः । तेन शालते शोभते तस्मिन्सुभ्रवां मध्येऽतिरिक्तोऽधिकोऽभूत् । मध्यस्यातिकार्यादस्पृष्टैकदेशोऽभूदित्यर्थः । पृथुलासु श्रोणेिषु कटिपु । 'वहिश्रिश्रुयुगुग्ला-' इति सूत्रेण श्रुधातोनिग्रत्ययः । सकलेन कृत्स्त्रेण तलेन स्पर्शमाप । अन्तर्भागेन क्रमेण श्रोणिमस्पृशदित्यर्थः । अत एव मध्यातिरेकोक्तरतिशयोक्तिः ॥
चक्रुरेव ललनोरुषु राजीः स्पर्शलोभवशलोलकराणाम् । कामिनामनिभृतान्यपि रम्भास्तम्भकोमलतलेषु नखानि॥६६॥ चकुरेवेति ॥ स्पर्शलोभवशेनोरुस्पर्शतृष्णापारतम्येण लोलकराणां चपल. पाणिनां कामिनामनिभृतान्यनर्पितान्यपि नखानि कररुहाः । 'पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम्' इत्यमरः । रम्भास्तम्भकोमलतलेषु कदलीप्रकाण्डपेलवस्वरूपेषु ललनानामूरुषु राजीः रेखाश्चक्रुरेव । ऊरुपरामर्शनान्तरीयकनखस्पशमात्रादेव रेखा जाता इत्यर्थः । अत्र कोमलतायाः विशेषणगत्या राजीकरणहेतुत्वात्काव्यलिङ्गभेदः॥