________________
२५४
शिशुपालवधे वामनः । लोलमाना वितताः प्रसारिताश्चाङ्गुलयो येषां ते तथाविधा हस्ता येषां तैरभीष्टैः प्रियतमैः सुध्रुवां मध्यं मुष्टिमेयमिति मुष्ट्या मातुं शक्यमित्यनुभवात्प्रत्यक्षेण मुष्ट्या मानं कृत्वैव प्रतिपेदे प्रतिबुद्धं न तु प्रसिद्धिमात्रादिति भावः । अमुष्टिमेयस्य मुष्टिमेयत्वोक्तेरतिशयोक्तिभेदोऽलंकारः ॥ प्राप्य नाभिनदमजनमाशु प्रस्थितं निवसनग्रहणाय । औपनीविकमरुन्ध किल स्त्री वल्लभस्य करमात्मकराभ्याम्॥६॥ प्राप्येति ॥ नाभिरेव नदो हद इति रूपकं तत्र मजनं प्राप्याशु निवसनग्रहणाय । वस्त्राकर्षणायेत्यर्थः । स्नातस्य वस्त्रग्रहणं युक्तमिति भावः । प्रस्थितं प्रवृत्तम् । उपनीवि नीविसमीपे प्रायेण तत्र भवमोपनीविकम् । तत्र व्यापृतमित्यर्थः । 'उपजानूपकर्णोपनीवेष्टक्' इति ठक् । वल्लभस्य करं स्त्री आत्मकराभ्यामरुन्ध किल । रोधं नाटितवतीत्यर्थः ॥
कामिनः कृतरतोत्सवकालक्षेपमाकुलवधूकरसङ्गि। मेखलागुणविलनमसूयां दीर्घसूत्रमकरोत्परिधानम् ॥ ६१ ॥
कामिन इति ॥ आकुले प्रियकरनिवारणव्यग्रे वधूकरे सङ्गि सक्तं मेखलैव गुणस्तत्र विलग्नं दीर्घसूत्रं आतततन्तुकम् । अत्यायतत्वाद्वहुधा वेष्टितमित्यर्थः । चिरक्रियं च । 'दीर्घसूत्रश्चिरक्रियः' इत्यमरः । एवं कृतो रतस्यैवोत्सवस्य कालक्षेपः कालविलम्बो येन तत्परिधानमधोंशुकं कामिनोऽसूयामकरोत् । इच्छाविघातादीया जनयामासेत्यर्थः । अत्र करसङ्गादिपदार्थानां विशेषणगत्यासूयाहेतुत्वादनेकपदार्थहेतुकं काव्यलिङ्गमलंकारः॥
अम्बरं विनयतः प्रियपाणेर्योषितश्च करयोः कलहस्य । वारणामिव विधातुमभीक्ष्णं कक्ष्ययाच वलयैश्च शिशिजे॥६२॥ अम्बरमिति ॥ अम्बरं विनयतोऽपसारयतः प्रियपाणेर्योषितः करयोश्च तस्मिन् रोधकयोरिति भावः । कलहस्य वारणां विधातुं निरावरणं कर्तुमिवेति फलोत्प्रेक्षा। कक्ष्यया काच्या । 'कक्ष्या कक्षे वरत्रायां काश्यां गेहप्रकोष्ठयोः' इति वैजयन्ती। 'कक्षया' इति क्षान्तपाठे तु 'कक्षा ग्रहणिकाकाञ्चीप्रकोष्ठगजरजुषु' इति क्षान्तेषु विश्वः । वलयैः कङ्कणैश्चाभीक्ष्णं शिशिजे चुकुशे । भावे लिट् । 'भूषणानां तु शिक्षितम्' इत्यमरः। द्वयोः कलहायमानयोः पार्श्वस्थाः साक्रोशं निवारयन्तीति भावः । शिक्षतिरयं तालव्यादिर्न दन्त्यादिः । 'योपेव शिर्छ' इति श्रुतेः॥
ग्रन्थिमुद्रथयितुं हृदयेशे वाससः स्पृशति मानधनायाः। भ्रूयुगेण सपदि प्रतिपेदे रोमभिश्च सममेव विभेदः ॥ ६३ ॥ ग्रन्थिमिति ॥ हृदयेशे प्रिये वाससो ग्रन्थिमुद्रथयितुं विस्रंसयितुम् । अथयतेश्वौरादिकात्तुमुन् । स्पृशति सति मानधनाया मानवत्याः। कामिन्या इति शेषः ।