________________
द्वितीयः सर्गः।
.४१ कार्योपाधेर्यावजीवमनपायादनयोर्मिनामित्रभावोऽप्यनपायीति गरीयांस्त्वमिति भावः । सहजप्राकृतौ तु नैवमित्याह-स्यातामिति । सह जातः सहजः एकशरीरावयवत्वात् । तत्र सहजं मित्रं मातृष्वसेयपितृष्वसेयादि । सहजशत्रुस्तु पितृव्यतत्पुत्रादिः । प्रकृत्या सिद्धः प्राकृतः । पूर्वोक्तसहजकृत्रिमलक्षणरहित इत्यर्थः । तत्र विषयान्तरः प्राकृतः शत्रुः । तदनन्तरः प्राकृतं मित्रम् । अपि त्वर्थे । तौ सहजप्राकृतौ शत्रुमित्रे च स्यातां तावात्मकार्यवशादनियमेनोभयरूपतामापयेते न कृत्रिमशत्रुमित्रे । कृत्रिमः शत्रुः शत्रुरेव मित्रं च मित्रमेवेति कृत्रिमावेव मित्रामित्रौ गरीयांसौ । नतु सहजौ, नापि प्राकृतावित्यर्थः । अनेन कृत्रिमत्वं सर्वापवादीति सिद्धम् ॥
एवं चेदस्माकं पैतृष्वसेयः शिशुपालः सहजमित्रत्वात्संधातव्यो न तु यातव्य इत्यत आह
उपकारिणा संधिर्न मित्रेणापकारिणा ।
उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः ॥ ३७॥ . उपकāति ॥ उपकर्बोपकारकारिणा अरिणापि । सहजेन प्राकृतेन चेति
शेषः । संधिः कार्यः। अरित्वापवादेन कृत्रिममित्रताया बलीयस्या यावजीवभाविन्यास्तत्रोत्पन्नत्वादिति भावः । एवमपकारिणा मित्रेणापि । सहजेन प्राकृतेन वेति शेषः । संधिर्न कार्यः । मित्रत्वापवादेन कृत्रिमशत्रुताया बलीयस्या यावजीवभाविन्यास्तत्रोत्पन्नत्वादिति भावः । ननु साक्षादरिणा संदध्यात्, मित्रेण कथं विरुन्ध्यादित्याशय क्रियया तयोर्वैपरीत्याददोष इत्याह-हि यस्मादुपकारापकारावेव तयोर्मिश्रामित्रयोर्लक्षणं स्वरूपं लक्ष्यं द्रष्टव्यम् । उपक व मित्रम् अपकतैव शत्रुरित्यर्थः । तस्मात्सहजमित्रत्वेऽपि चैद्यः क्रियया शत्रुत्वाद्यातव्य एवेति भावः ॥ अथ चैद्यस्य कृत्रिमशत्रुत्वं चतुर्भिराह
त्वया विप्रकृतश्चैद्यो रुक्मिणी हरता हरे ।
बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रियः ॥ ३८॥ ' त्वयेति ॥ हे हरे, रुक्मिणी हरता । बन्धुभिस्तस्मै प्रदत्तां राक्षसधर्मेणोद्वहतेत्यर्थः । 'राक्षसो युद्धहरणात्' इति याज्ञवल्क्यः । 'गान्धर्वो राक्षसश्चैव धम्यौं क्षत्रस्य तौ स्मृतौ' इति मनुः । त्वया चैद्यो विप्रकृतः विप्रियं प्रापितः । तथाहि बद्धमूलस्य रूढमूलस्य वैरतरोः स्त्रियो महत्प्रधानं मूलम् । हि निश्चये । रूपकसंसृष्टोऽयं सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ अथ तेनापि त्वं विप्रकृत इत्याह
त्वयि भौमं गते जेतुमरौत्सीत्स पुरीमिमाम् । प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव ॥ ३९ ॥