________________
शिशुपालवधे
समूलेति ॥ मानिनोऽभिमानिनः पराशत्रून् समूलं हत्वा समूलघातमनन्तः । अनुन्मूलयन्त इत्यर्थः । 'समूलाकृतजीवेषु हन्कृष्ग्रहः' इति णमुल प्रत्ययः । 'कषादिषु यथाविध्यनुप्रयोगः' इति हन्तेरनुप्रयोगः । नोद्यन्ति । किंतु हत्वैवोद्यन्तीत्यर्थः । तत्र हत्वैवोदये अन्धयतीत्यन्धं गाढं तमोऽन्धतमसम् । 'ध्वान्ते गाढेऽन्धतमसम्' इत्यमरः । 'अवसमन्धेभ्यस्तमसः' इत्यच्प्रत्ययः । प्रध्वं. सितमन्धतमसं येन सः । उदयात्प्रागिति भावः । रविरुदाहरणं दृष्टान्तः । अत्रापि 'दृष्टान्तोऽत्र महार्णवः' इतिवदुपमालंकारो न तु दृष्टान्त इति द्रष्टव्यम् ॥ किंचानुच्छिन्नशत्रोः प्रतिष्ठैव दुर्घटेत्याह
विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा ।
अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥ ३४ ॥ विपक्षमिति ॥ विपक्षं शत्रुमखिलीकृत्य खिलमुत्सन्नमकृत्वा । अनुन्मूल्येत्यर्थः । प्रतिष्ठा दुर्लभा खलु । तथाहि-उदकं कर्तृ । धूलिम् । स्वपरिभाविनीमिति भावः । पङ्कतामनीत्वा । नाधःकृत्येत्यर्थः । नावतिष्ठते। किंतु नीत्वैव तिष्ठतीत्यर्थः । 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । वाक्यभेदेन प्रतिबिम्बनापेक्षो. दृष्टान्तालंकारः ॥ नन्वयं शिशुपाल एकाकी नः किं करिष्यतीत्याशङ्कयाहध्रियते यावदेकोऽपि रिपुस्तावत्कुतः सुखम् ।
पुरः क्लिश्नाति सोमं हि सैंहिकेयोऽसुरद्रुहाम् ॥ ३५ ॥ .. भियत इति ॥ एकोऽपि रिपुर्यावद्भियतेऽवतिष्ठते । 'धङ् अवस्थाने' इति धातोस्तौदादिकाकर्तरि लट् । 'रिशयग्लिक्षु' इति रिङादेशः । तावत्तदवधि सुखं कुतः । ‘यावत्तावच्च साकल्येऽवधौ' इत्यमरः । तथाहि-सिंहिकाया अपत्यं पुमान्सँहिकेयो राहुः । 'तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुतुदः' इत्यमरः । 'स्त्रीभ्यो ढक्' । असुरद्रुहां देवानां पुरोऽग्रे सोमं क्लिश्नाति धावते । प्राचुर्यात्सो. मग्रहणम् । सूर्यं चेति भावः । तस्मादेकोऽपि शत्रुरुच्छेत्तव्य इति भावः । 'अग्नेः शेषमृणाच्छेषं शत्रोः शेषं न शेषयेत्' इति तात्पर्यम् । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः॥
ननु क्षुद्रोऽयं चैद्यः किं नः करिष्यतीत्याशक्य तस्य बलवत्ता वक्तुं मित्रामित्रबलाबलविवेकं तावत्करोति
सखा गरीयान् शत्रुश्च कृत्रिमस्तौ हि कार्यतः ।।
स्थाताममित्रौ मित्रे च सहजप्राकृतावपि ॥ ३६॥ सखेति ॥ क्रियया उपकारापकारान्यतररूपया निवृत्तः कृत्रिमः । 'द्वितः क्रिः' 'क्रेर्मन्नित्यम्' । सखा.सुहृत् शत्रुश्च कृत्रिमो गरीयान् । कुतः-हि यस्मात्तौ कृत्रिममित्रशत्रू कार्यत उपकारापकाररूपकार्यवशात् । निर्वृत्ताविति शेषः । उक्त