________________
द्वितीयः सर्गः।
आत्मोदय इति ॥ आत्मन उदयो वृद्धिः परस्य शत्रोानिहानिः । 'वीज्याहाज्वरिभ्यो निः' इत्यौणादिको निप्रत्ययः । इति द्वयम् । इदं परिमाणमस्या इति इयती एतावती । 'किमिदंभ्यां वो घः' इति वतुपो वस्य घश्च । 'उगितश्च' इति डीप् । नीतिर्नीतिसंग्रहः । एतद्यातिरिक्तो न कश्चिन्नीतिपदार्थोऽस्तीत्यर्थः । यदन्यत्पाडण्यादिवर्णनं तत्सर्वमस्यैव प्रपञ्च इत्याह-तदिति । तद्वयमूरीकृत्याङ्गीकृत्य । 'ऊरीकृतमुररीकृतमङ्गीकृतम्' इत्यमरः । 'ऊर्यादिच्चिडाचश्च' इति गतिसंज्ञायां 'कुगतिप्रादयः' इति समासे क्त्वो ल्यप् । कृतिभिः कुशलैः वाचस्पत्यं वाग्मित्वम् । कस्कादित्वादलुक्सत्वे । 'षष्ठ्याः पतिपुत्र-' इत्यादिना सत्वमिति स्वामी । तन्न । तस्य छन्दोविषयत्वात् । ब्राह्मणादित्वाद्भावे प्यम्प्रत्ययः । प्रतायते विस्तार्यते। कर्मणि लट् । 'तनोतर्यकि' इत्यात्वम् । तस्मादात्मोदयार्थिभिरविलम्बाच्छत्रुरुच्छेत्तव्यः । तत्रान्तरीयत्वात्तस्येति भावः ॥ . ननु लब्धोदयस्य किं परोच्छित्त्येत्यत्राह
तृप्तियोगः परेणापि महिम्ना न महात्मनाम् । पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टान्तोऽत्र महार्णवः ॥ ३१ ॥ तृप्तियोग इति ॥ महीयसां महात्मनां परेणापि प्रभूतेनापि महिना ऐश्वर्येण तृप्तियोगः संतोषलाभो न । अत्र तृप्त्यभावे पूर्णः सन् चन्द्रोदयाकाङ्क्षी । वृद्ध्यर्थमिति भावः । महार्णवो दृष्टान्तः दृष्टः अन्तो निश्चयो यस्मिन् दृष्टान्तो निदर्शनम् । उपमानमिति यावत् । राज्ञा वृद्धावलंबुद्धिर्न कार्या । 'असंतुष्टा द्विजा नष्टाः संतुष्टाश्च महीभुजः । सलज्जा गणिका नष्टा निर्लजा च कुलाङ्गना ॥' इति न्यायादिति भावः । नायं दृष्टान्तालंकारः । बिम्बप्रतिबिम्बभावेनौपम्यस्य गम्यत्वे तस्योत्थानात्। किंतु दृष्टान्तशब्देन तस्याभिधानादुपमालंकारः। अतएव दृष्टान्तोदाहरणनिदर्शनरूपाः शब्दा न प्रयोक्तव्याः पौनरुक्त्यापत्तेरित्येकावल्यलंकारः ॥ तथापि संतोषे दोषमाह
संपदा सुस्थिरंमन्यो भवति स्वल्पयापि यः ।
कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ ३२॥ संपदेति ॥ यः स्वल्पयापि संपदा सुस्थिरमात्मानं मन्यत इति सुस्थिरंमन्यः स्वस्थमानी भवति । 'आत्ममाने खश्च' इति खश्प्रत्यये मुमागमः । तस्याल्पसंतुष्टस्य तां स्वल्पसंपदं कृतकृत्यस्तावतैव कृतार्थो विधिदैवमपि न वर्धयति अहमिति मन्ये । पौरुषहीनादेवमपि जुगुप्सिते तत्प्रवृत्तेः पारार्थ्यादिति भावः ॥ किंच पराक्रमलब्ध एवोदयो नान्यलब्ध इत्याह
समूलघातमनन्तः परान्नोद्यन्ति मानिनः । प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥ ३३ ॥
१ 'मुस्थितंमन्यो' इति पाठः.