________________
शिशुपालवधे
त्वयीति ॥ त्वयि भूमेरपत्यं पुमांसं भौमं नरकासुरं जेतुं गते सति । स चैद्य इमां पुरीं द्वारकाम् । प्रोषितोऽर्यमा सूर्यो यस्यास्तां मेरोस्तटीं सानुमन्धकार इवारौत्सीद्रुद्धवान् । रुधेरनिटो लुङि सिचि वृद्धिः । उपमालंकारः ॥
अपकारान्तरमाह
४२
➖➖➖
आलप्यालमिदं बभ्रोर्यत्स दारानपाहरत् ।
कथापि खलु पापानामलम श्रेयसे यतः ॥ ४० ॥
आलप्येति ॥ स चैद्यो बभ्रोर्यादवभेदस्य दारान्भार्याम् । 'भार्या जायाथ पुं भूनि दाराः स्यात्तु कुटुम्बिनी' इत्यमरः । अपाहरदिति यदिदं दारापहरणं आलप्योच्चार्यालम् । नालपनीयमित्यर्थः । 'अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा' इति क्वाप्रत्यये समासे ल्यबादेशः । यतः पापानां पाप्मनां कथनमुच्चारणमपि । 'चिन्तिपूजकुथिकुम्बि' इत्यप्रत्ययः । अश्रेयसेऽनर्थायालं समर्थ खलु । ' नमः - स्वस्ति - ' इत्यादिना चतुर्थी । अत्र निषिध्यमानालपननिषेधन समर्थनात्कार्येण
कारणसमर्थकोऽर्थान्तरन्यासः ॥
फलितमाह
विराद्ध एवं भवता विराद्धा बहुधा च नः । निर्वर्त्यतेऽरिः क्रियया स श्रुतश्रवसः सुतः ॥ ४१ ॥
विराद्ध इति ॥ एवं भवता विराद्धो विप्रकृतः । राधेरनिटः कर्मणि क्तः । बहुधा नोsस्माकं च विराद्धा विप्रकर्ता श्रुतश्रवा नाम हरेः पितृष्वसा तस्याः सुतः । पैतृष्वसेयत्वात्सहजमित्रमपीति भावः । स चैद्यः क्रियया पूर्वोक्तान्योन्यापक्रियया अरिर्निर्वर्त्यते कृत्रिमः शत्रुः क्रियते । अतो बलीयस्त्वादनुपेक्ष्य इति
भावः ॥
अत्राप्युपेक्षायां दोषमाह -
विधाय वैरं सामर्षे नरोऽरौ य उदासते ।
प्रक्षिप्योदचिषं कक्षे शेरते तेऽभिमारुतम् ॥ ४२ ॥
विधायेति ॥ ये नरः पुमांसः । ' स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नराः ' इत्यमरः । सामर्षे प्रागेव सरोषेऽरौ वैरं विधाय । स्वयं चापकृत्येत्यर्थः । उदासते उपेक्षते ते नरः कक्षे गुल्मे । 'कक्षस्तु गुल्मे दोर्मूले पापे जीर्णवने तृणे' इति वैजयन्ती । उदर्चिषमधिकज्वालमग्निं प्रक्षिप्य अभिमारुतम् । आभिमुख्येऽव्ययीभावः । शेरते स्वपन्ति । तद्वन्नाशहेतुरित्यर्थः । 'शीडो रुद्र' इति रुडागमः । अत्र ये उदासते ते शेरते इति विशिष्टौदासीन्यशयनयोर्वाक्यार्थयोर्निर्दिष्टैकत्वासंभवात्सादृश्यलक्षणायामसंभवद्वस्तुसंबन्धी वाक्यार्थनिर्वृत्तिरिति निदर्शनाभेदः । न चायं दृष्टान्तः । वाक्यभेदेन प्रतिबिम्बकारणाक्षेपे तस्योत्थानात् । अत्र तु वाक्यार्थे वाक्यार्थसमारोपाद्वाक्यैकवाक्यतायां तदभाव इत्यलंकार सर्वस्वकारः ॥
1
१ इतः पूर्वमुत्तरलोकास्त्रयो दृश्यन्ते.