________________
द्वितीयः सर्गः
deft arraत्वात्सोढव्य इत्याशङ्कयाह
मनागनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमी । क्रियासमभिहारेण विराध्यन्तं क्षमेतं कः ॥ ४३ ॥
४३
मनागिति ॥ यः क्षमी सहनः । ' शमित्यष्टाभ्यो घिनुण्' इति घिनुण्प्रत्ययः । स सोढा मनागल्पम् । अभ्यावृत्तावपीति भावः । अनभ्यावृत्या सकृद्वा । अनल्पत्वेऽपीति भावः । विराध्यन्तमपकुर्वाणं कामं भृशं क्षाम्यतु क्षमताम् । संभावनायां लोट् । 'शमामष्टानां दीर्घः श्यनि' । क्रियासमभिहारेण भृशम्, पौनःपुन्येन चेत्यर्थः । न च पुंवाक्येष्वनेकार्थत्वं दोषाय । विराध्यन्तं कः क्षमेत सहेत सोढुं शक्नुयात् । न कोऽपीत्यर्थः । ' शकि लिङ् -' इति शक्यार्थे लिङ् । 'क्षमू प्रसहने' दैवादिको भौवादिकश्च ॥
ननु सर्वदा क्षमैव पुंसो भूषणम्, अतोऽपराधेऽपि क्षन्तव्यमत आहअन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः । पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥ ४४ ॥
अन्यदेति ॥ अन्यदा सुरतव्यतिरिक्ते काले योषितो लज्जेव पुंसोऽन्यदा अपरिभवे क्षमा शमो भूषणम् । परिभवे तु योषितः सुरतेषु वैयात्यं धार्यमिव । 'धृष्टे धृष्णुर्वियातश्च' इत्यमरः । पराक्रमः पौरुषं भूष्यतेऽनेनेति भूषणमाभरणम् । एवं चाक्रियावचनत्वान्नियतलिङ्गत्वाद्विरोध इति वल्लभोक्तं प्रत्युक्तम् ॥ अथ परिभवेऽप्यपाक्रमे त्रिभिर्निन्दामाह
माजीवन्यः परावज्ञादुःखदग्धोऽपि जीवति । तस्याजननिरेवास्तु जननीक्लेशकारिणः ॥ ४५ ॥
माजीवन्निति ॥ यः परस्यापकर्तुरवज्ञया अवमानेन यद्दुःखं तेन दुग्धस्तोत एव माजीवन्गर्हितजीवी सन् । 'माड्याक्रोशे' इति लटः शत्रादेशः । जीवति प्राणान्धारयति । जनन्याः क्लेशकारिणो गर्भधारणप्रसवादिवेदनाकारिणः । तद्व्यतिरिक्तार्थक्रियाहीनस्येत्यर्थः । तस्याजननमजननिरनुत्पत्तिरेवास्तु । जननीक्लेशनिवृत्त्यर्थमिति भावः । ' आक्रोशे नन्यनिः' इति नञ्पूर्वाजनिधातोरनिप्रत्ययः ॥ पादाहतं यदुत्थाय मूर्धानमधिरोहति ।
स्वस्थ देवापमानेऽपि देहिनस्तद्वरं रजः ॥ ४६ ॥
पादेति ॥ यहजो धूलिः पादेनाहतं सदुत्थायोड्डीय मूर्धानमाहन्तुरेव शिरोsaरोहत्याक्रमति तद्वजः । अचेतनमपीति भावः । अवमाने सत्यपि स्वस्थात्सं तुष्टाद्देहिनश्चेतनाद्वरं श्रेष्ठम् । व्यतिरेकालंकारः ॥
असंपादयतः कंचिदर्थं जातिक्रियागुणैः । यदृच्छाशब्दवत्पुंसः संज्ञायै जन्म केवलम् ॥ ४७ ॥
१ 'सहेत' इति पाठः. २ 'शमो' इति पाठः