________________
४४
शिशुपालवधे असंपादयत इति ॥ किंच जातिर्ब्राह्मणत्वादिः, क्रिया इज्याध्ययनादिः, गुणः शौर्यादिः, तैः साधनैः। करणे तृतीया । कंचिदर्थ सुकृतकीर्त्यादिपौरुषार्थम् , अन्यत्र गोत्ववाचकत्वशौक्लयादिभिः खाभिधेयभूतैः करणैः कंचिदर्थं व्यवहा. ररूपं प्रयोजनमसंपादयतः । उभयत्र तादृग्जात्याद्यसंभवादिति भावः । पुंसो जन्म सत्तालाभः यदृच्छाशब्दवत् इच्छाप्रकल्पितस्य जात्यादिप्रवृत्तिनिमित्तशून्यस्य डित्थादिशब्दस्येव । 'तत्र तस्येव' इति वतिप्रत्ययः। 'स्वेच्छा यदृच्छा स्वच्छन्दः स्वैरता चेति ते समाः' इति केशवः । संज्ञायै केवलं संज्ञार्थमेव । एकत्र पारिभाषिकं किंचिन्नाममात्रमनुभवितुम् , अन्यत्र तादृक्तामनुभवितुमित्यर्थः । एवमपौरुषं दूषयित्वा पौरुषं भूषयति
तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावगाधता ।
अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥४८॥ तुङ्गत्वमिति ॥ अद्रौ पर्वते तुङ्गत्वम् । औन्नत्यमस्तीति शेषः । अस्तिर्भवन्तीपरोऽप्रयुज्यमानोऽप्यस्तीत्यादिभाष्यात् । भवन्तीति पूर्वाचार्याणां लटः संज्ञा । इतराऽगाधता नास्ति । सिन्धौ समुद्रेऽगाधता गम्भीरतास्ति । इदं तुङ्गत्वं नास्ति । मनस्विनि वीरे त्वलङ्घनीयताहेतुरलङ्घयत्वकारणं तदुभयं तुङ्गत्वमगाधता च । तस्मादद्रिसिन्धुभ्यामधिको मनस्वीति व्यतिरेकालंकारः ॥
संप्रति शत्रौ मार्दवमनायेत्याह__ तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् । .. हिमांशुमाशु ग्रसते तन्म्रदिन्नः स्फुटं फलम् ॥ ४९॥
तुल्य इति ॥ स्वर्भानू राहुरपराधे तुल्येऽपि भानुमन्तं सूर्य चिरेण असते, हिमांशुं चन्द्रमाशु शीघ्रं ग्रसते गिलतीति यत् । 'ग्रसिते गिलितं गीर्णम्' इत्यभिधानात् । तन्त्रदिन्नो मार्दवस्य फलं स्फुटम् । 'पृथ्वादिभ्य इमनिच्' इतीमनिष्प्रत्ययः । तस्माद्विपक्षे तीव्रण भवितव्यम् । अन्यथा मृदुः सर्वत्र बाध्यत इति भावः । एतच्च प्रस्तुतमप्रस्तुतार्केन्दुकथनेन सारूप्यात्प्रतीयते इत्यप्रस्तुतप्रशंसाभेदोऽयम् । 'अप्रस्तुतस्य कथनात्प्रस्तुतं यत्र गम्यते । अप्रस्तुतप्रशंसेयं सारूप्याद्विनियत्रिता ॥' इति लक्षणात् ॥ एतदेव भङ्गयन्तरेणाह
स्वयं प्रणमतेऽल्पेऽपि परवायावुपेयुषि । निदर्शनमसाराणां लघुर्बहुतृणं नरः॥५०॥ खयमिति ॥ असाराणां दुर्बलानां निदर्शनं दृष्टान्तः । अत एव ईषदसमाप्त तृणं बहुतृणम् । तृणकल्पमित्यर्थः । 'विभाषा सुपो बहुच्पुरस्तात्तु' इति बहुच्प्रत्ययः प्रकृतेः पूर्व च भवति । 'स्यादीषदसमाप्तौ तु बहुच्अकृतिलिङ्गके' इति वचनात्प्रकृतिलिङ्गता । लघुर्निष्पौरुषो नरोऽल्पेऽपि परो वायुरिवेत्युपमितसमासः ।