________________
द्वितीयः सर्गः। बहुतृणमिति । स्पष्टोपमासाहचर्यात्कल्पब्देश्यदेशीयदेश्यादीति दण्डिना कल्पबादीनामौपम्यवाचकेष्वभिधानात् । तस्मिनुपेयुषि प्राप्ते सति स्वयं प्रणमते स्वयमेव प्रह्वीभवति । 'कर्मवत्कर्मणा तुल्यक्रियः' इति कर्मवद्भावात् 'भावकर्मणोः' इत्यात्मनेपदम् । 'न दुहसुनमा यक्चिणौ' इति यक्प्रतिषेधः । वायुना तृणमिवाल्पीयसापि रिपुणा लघुरक्लेशेन परिभूयत इत्यर्थः । उपमालंकारः ॥ पुनः पौरुषे गुणमाह- .
तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते ।
पञ्चमः पञ्चतपसस्तपनो जातवेदसाम् ॥५१॥ तेजस्वीति ॥ दवीयानपि दूरस्थोऽपि । 'स्थूलदूर-' इत्यादिना पूर्वगुणयणादिपरलोपौ । तेजस्वी तेजस्विनां मध्ये गण्यते संख्यायते । तथाहि-पञ्चाग्निसाध्यं तपो यस्य स तथा तस्य पञ्चतपसः पञ्चाग्निमध्ये तपस्यतः तपनोऽर्को जातवेदसामनीनां पञ्चमः पञ्चानां पूरणः । पञ्चमो जातवेदा भवतीत्यर्थः। विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ गुणान्तरं च व्यतिरेकेणाह
अकृत्वा हेलया पादमुच्चैर्मूर्धसु विद्विषाम् ।
कथंकारमनालम्बा कीर्तिर्यामधिरोहति ॥ ५२ ॥ • अकृत्वेति ॥ उच्चैरुन्नतेषु विद्विषां मूर्धसु हेलया पादमकृत्वा अनिधाय । 'अनपूर्वः' इति निषेधात्समासेऽपि न ल्यबादेशः । कीर्तिः कथंकारम् । कथमित्यर्थः । 'अन्यथैवंकथमित्थं सुसिद्धाप्रयोगश्चेत्' इत्यनर्थकादेव करोतेः कथंपूर्वाण्णमुल । अनालम्बा निराधारा कीर्तिद्या दिवमधिरोहति । न कथंचिदित्यर्थः । किंचिनिःश्रेण्यादिकमनाक्रम्य उच्चसौधस्य दुरारोहत्वादिति भावः । तस्मात्कीर्तिमिच्छता पौरुषमेवाश्रयणीयमिति श्लोकतात्पर्यम् । कीर्तितद्वतोरभेदोपचारात्समानकर्तृतानिर्वाहः । अत्र प्रस्तुतायाः कीर्तेर्विषयमहिम्ना अप्रस्तुतप्रासादारोहणस्त्रीव्यवहारप्रतीतेः समासोक्तिः ॥ पौरुषमेवाश्रयणीयमित्यत्रान्वयव्यतिरेकदृष्टान्तावाचष्टे
अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः ।
केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः॥ ५३॥ अङ्केति ॥ अङ्कमुत्सङ्गमधिरोपितो मृगो येन स चन्द्रमाः मृगलान्छनः मृगाङ्कः । तथा निष्ठुरं यथा तथा क्षिप्तो हतो मृगयूथो मृगसमूहो येन स केसरी सिंहो मृगाधिपः । उभयत्रापि ख्यात इति शेषः । तस्माच्छनौ मार्दवं दुष्कीर्तये, पौरुषं तु कीर्तये इति भावः । अत्राप्रस्तुतकथनात्प्रस्तुतार्थप्रतीतेरप्रस्तुतप्रशंसा ॥ __ ननु सामादि सुकरोपायमपेक्ष्य किं पाक्षिकसिद्धिना दण्डेन । यथाह मनुः'साम्ना भेदेन दानेन समस्तैरुत वा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ॥' इति । तस्मात्सान्त्वमेव युक्तमित्याशक्य द्वाभ्यां निराचष्टे