________________
४६
शिशुपालवधे चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया।
खेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिश्चति ॥ ५४॥ चतुर्थोपायेति ॥ चतुर्थोपायसाध्ये दण्डसाध्ये रिपौ सान्त्वं साम । 'सामसान्त्वमुभे समे' इत्यमरः । अपक्रियापकारः । तथा हि-स्वेद्यं स्वेदाहम् । स्वेदनकार्यमित्यर्थः । 'स्वेदस्तु स्वेदने धर्मे' इति विश्वः । आमज्वरमपक्कज्वरं प्राप्य । 'आमो रोगे रोगभेदे आमोऽपक्के तु वाच्यवत्' इति विश्वः । कः प्राज्ञः पण्डितोऽम्भसा जलेन परिषिञ्चति । न कोऽपीत्यर्थः । ज्वरितस्याम्भस्सेकवत्क्रुद्धस्य सान्त्वमुद्दीपनकरं स्यात् । अतो दण्ड्य एवेति भावः । वाक्यभेदेन प्रतिबिम्बकरणापेक्षो दृष्टान्तालंकारः॥
सामवादाः सकोपय तस्य प्रत्युत दीपिकाः ।
प्रतप्तस्येव सहसा सर्पिपस्तोयबिन्दवः ॥ ५५ ॥ सामेति ॥ सकोपस्य रूढवैरस्य तस्य चैद्यस्य सामवादाः प्रियोक्तयः सहसा प्रतप्तस्य कथितस्य सर्पिषो घृतस्य तोयबिन्दव इव प्रत्युत वैपरीत्येन दीपिकाः प्रज्वलनकारिणः । न तु शान्तिकरा इत्यर्थः। तस्माद्दण्ड्य एव सः । मनुवचनं त्वप्ररूढवैरविषयमिति भावः ॥ एवंस्थिते यदि केचिदुद्धवादयः प्रत्याचक्षीरंस्तान्प्रत्याह
गुणानामायथातथ्यादर्थं विप्लावयन्ति ये ।
अमात्यव्यञ्जना राज्ञां दृष्यास्ते शत्रुसंज्ञिताः ॥५६॥ गुणानामिति ॥ संध्यादीनां गुणानामायथातथ्यात् । तथात्वमनतिक्रम्य यथातथम् । यथायोग्यमिति यावत् । 'यथार्थे तु यथातथम्' इत्यमरः । यथार्थेऽव्ययीभावः । 'स नपुंसकम्' इति नपुंसकत्वम् । 'हस्वो नपुंसके-' इति हूस्वत्वम् । ततो नन्समासे अयथातथं, तस्य भाव आयथातथ्यम् । ब्राह्मणादित्वाव्यन्प्रत्ययः । 'यथातथयथापुरयोः पर्यायेण' इति विकल्पान्नम्पूर्वपदवृद्धिः । तस्मादायथातथ्यादयथायोग्यत्वात् । अन्यकालेऽन्यप्रयोगादित्यर्थः । अर्थ प्रयोजनं ये विलावयन्ति निन्नन्ति । कार्यहानिं कुर्वन्तीत्यर्थः। अमात्यानां व्यअनं चिह्नं येषां ते तथोक्ताः । तद्वेषधारिण इत्यर्थः । 'अवो बहुव्रीहिय॑धिकरणो जन्माधुत्तरपदः' इति वामनः । वस्तुतस्तु शत्रुरिति संज्ञा एषां संजाता शत्रुसंज्ञिताः शत्रव एव ते कूटमन्त्रिणो राज्ञां दूषयितुमर्हाः दूष्या गाः । त्याज्या इति यावत् । 'कृत्यानां कर्तरि वा' इति कर्तरि षष्ठी। अतः स्वोक्तं न प्रतिरोद्धव्यमिति भावः॥ ननु यातव्योऽपि काले यातव्य इत्याशयायमेव काल इत्याह
खशक्त्यूपचये केचित्परस्य व्यसनेऽपरे । यानमाहुस्तदासीनं त्वामुत्थापयति द्वयम् ॥ ५७॥