________________
द्वितीयः सर्गः।
४७
खेति ॥ केचिद्वृद्धाः स्वस्य शक्तयुपचये सामर्थ्यातिरेके यानं यात्रामाहुः । यथाह कामन्दकः-'प्रायेण सन्तो व्यसने रिपूणां यातव्यमित्येव समादिशन्ति । तथा विपक्षे व्यसनानपेक्षी क्षमो द्विषन्तं मुदितः प्रतीयात् ॥' इति । अपरे वृद्धाः परस्य शत्रोर्व्यसने विपदि । 'व्यसनं विपदि भ्रंशे' इत्यमरः । यानमाहुः । अत्र मनुः-'तदा यायाद्विगृह्मैव व्यसने चोत्थिते रिपोः' इति । तद्यमुक्तपक्षद्वयं कर्तृ आसीनमनुधुञ्जानम् । 'ईदासः' इति शानजाकारस्येकारादेशः । त्वामु. स्थापयति प्रेरयति । तदुभयलाभादीढकालो न कदापि लक्ष्यत इत्यर्थः ॥ तत्र स्वशक्त्युपचयं तावल्लक्षयतिलिलचयिषतो लोकानलङ्घयानलघीयसः।
यादवाम्भोनिधीन्रुन्धे वेलेव भवतः क्षमा ॥ ५८॥ लिलङ्घयिषत इति ॥ लोकांल्लङ्घयितुमिच्छतो लिलवयिषतः । लङ्घयतेः सन्नन्ताल्लटः शतरि शस् । अलङ्घयान्स्वयं दुर्लङ्घयान् । कुतः अलघीयसोऽतिगुरून् । अत एव यादवा अम्भोनिधय इवेत्युपमितसमासः । वेलेवेति लिङ्गात् । तान्यादवाम्भोनिधीन्भवतः क्षमा तितिक्षा वेलेव कूलमिव । 'वेला कूलेऽपि वारिधेः' इति विश्वः । रुन्धे प्रतिबध्नाति । अन्यथा प्रागेव सर्वं संहरेयुरिति भावः ॥ अभ्युच्चयश्वायमपरो यदक्लेशेनैव ते विजयलाभ इत्याहविजयस्त्वयि सेनायाः साक्षिमात्रेऽपदिश्यताम् ।
फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि ॥ ५९॥ विजय इति ॥ सेनायाः का विजयः साक्षिमात्रे उदासीने एकफलभाजि त्वयि समीक्ष्योक्ते सांख्योक्ते । 'सांख्यं समीक्ष्यम्' इति त्रिकाण्डः । आत्मनि बुद्धेर्महत्तत्त्वस्य मूलप्रकृतेः प्रथमविकारस्य काः भोगः सुखदुःखानुभव इवापदिश्यतां व्यवहियताम् । भृत्यजयपराजययोः स्वामिगम्यत्वादिति भावः । सांख्या अप्याहुः- 'कतैव भवत्युदासीनः' इति, 'सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः' इति च ॥ अथ परस्य व्यसनमाह
हते हिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि ।
चिरस्य मित्रव्यसनी सुदमो दमघोषजः ॥६० ॥ हत इति ॥ हिडिम्बरिपुणा भीमेन द्वयोर्मात्रोरपत्यं पुमान्द्वैमातुरः। 'मातुरुत्संख्यासंभद्रपूर्वायाः' इत्यण्प्रत्ययः उकारश्चान्तादेशो रेफपरः । तस्मिन्राज्ञि जरासन्धे । सहिताभ्यां पत्नीभ्यामर्धशः प्रसूतो जरया नाम पिशाच्या संधितश्चेति कथयन्ति । युधि हते सति चिरस्य चिरकालेन । 'चिराय चिररात्राय चिरस्याद्या'श्चिरार्थकाः' इत्यमरः । मित्रव्यसनी मित्रव्यसनवान् । मित्रभ्रंशवानिति यावत् ।
१ 'तन्नैष पक्षो व्यसनं ह्यनिष्टं क्षमस्तु सन्नभ्युदितः प्रतीयात्' इति पाठः.