________________
४८
४८ . शिशुपालवधे 'व्यसनं विपदि भ्रंशे' इत्यमरः । दमघोषाजातो दमघोषजश्चैद्यः सुखेन दम्यत इति सुदमः । एकाकित्वात्सुसाध्य इत्यर्थः ॥ ___ कष्टश्चायं पक्षोऽभ्युपेत्यवादेनोक्तः, वस्तुतस्तु शूराणामग्रिमपक्ष एवेष्टः शास्त्रसंवादी । यथाह कामन्दक:-'यदा समस्तं प्रसभं निहन्तुं पराक्रमादूर्जितमप्यमित्रम् । तदाभियायादहितानि कुर्वन्नपान्ततः कर्षणपीडनानि ॥' इतीत्यभिप्रेत्याह
नीतिरापदि यद्गम्यः परस्तन्मानिनो हिये ।
विधुर्विधुन्तुदस्येव पूर्णस्तस्योत्सवाय सः॥६१॥ नीतिरिति ॥ परः शत्रुरापदि गम्यो गमनाहः नीतिरिति यत्तदापदि गमनं मानिनः शौर्याभिमानिनो हिये । लजाकरमित्यर्थः। किंतु पूर्ण उपचितगात्रः स शत्रुस्तस्य मानिनः । विधुश्चन्द्रः विधुं तुदति हिनस्तीति विधुंतुदो राहुः । 'विध्वरुषोस्तुदः' इति खश्प्रत्यये मुमागमः। तस्येवोत्सवाय । अत एव बलिना बलवानेव यातव्यः, बलिनश्च वयमिति भावः ॥ तर्हि पूर्वोदाहृतमन्वादिशास्त्रविरोधः स्यादित्याशङ्कयाह
अन्यदुच्छृङ्खलं सत्त्वमन्यच्छास्त्रनियत्रितम् ।।
सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ॥ ६२ ॥ अन्यदिति ॥ अन्यदुच्छृङ्खलमनर्गलम् । प्रसह्य पीडनक्षममिति भावः । सत्त्वं बलमन्यत् । शास्त्रेण मन्वादिशास्त्रेण नियत्रितमुदाहृतं परव्यसनकाले निर्मितं सत्त्वमन्यत् । उत्कटानुत्कटलक्षणवैलक्षण्यमन्यशब्दार्थः । तयोः सापेक्षत्वनिरपेक्षत्वाभ्यां मिथो विरोधान्नैकशास्त्रत्वं संभवतीत्यर्थः । अत्र दृष्टान्तमाह-तेजस्तिमिरयोः समानमधिकरणं ययोस्तयोर्भावः सामानाधिकरण्यमेकाश्रयत्वं कुतः । न कुतश्चित् तयोः सहावस्थानविरोधादिति भावः । तस्मादुभयोरुदितानुदितहोमवद्भिन्नविषयत्वादितरेतरशास्त्रविरोधो न बाधक इति भावः ॥ तर्हि नः किमिदानीं कार्यमत आह
इन्द्रप्रस्थगमस्तावत्कारि मा सन्तु चेदयः ।
आमाकदन्तिसांनिध्याद्वामनीभूतभूरुहः ॥ ६३ ॥ इन्द्रप्रस्थेति ॥ इन्द्रप्रस्थस्य पार्थनगरस्य गमो गमनम् । 'ग्रहवृदृनिश्चिगमश्च' इत्यप्रत्ययः । तावदिदानी मा कारि तावत् । न क्रियतामेवेत्यर्थः । 'यावत्तावत्परिच्छेदे कात्स्यें मानावधारणे' इति विश्वः । कृजः कर्मणि लुङ् । 'माङि लुङ्' इत्याशीरर्थे । 'न माड्योगे' इत्यत्प्रतिषेधः । किंतु चेदयश्चेदिदेशाः। अस्माकमिमे आस्माकाः 'युष्मदस्मदोरन्यतरस्यां खञ्च' इति विकल्पादण्प्रत्ययः। 'तस्मिन्नणि च युष्माकास्माकौ' इत्यस्माकादेशः । संनिधिरेव सांनिध्यम् । स्वार्थे प्यन्प्रत्ययः । आस्माकानां दन्तिनां सांनिध्याद्वामनीभूताः शाखाभङ्गात्खर्वीभूता भूरुहो वृक्षा येषां ते तथोक्ताः सन्तु । चेदियात्रैव क्रियतामित्यर्थः । सा च प्रस्तुता प्रस्तुतेनैव