________________
४९
द्वितीयः सर्गः। स्वकार्येण गम्यत इति पर्यायोक्तालंकारः । 'कारणं गम्यते यत्र प्रस्तुतात्कार्यवर्णनात् । प्रस्तुतत्वेन संबन्धात्पर्यायोक्तः स उच्यते ॥' इति लक्षणात् ॥
निरुद्धवीवधासारप्रसारा गा इव ब्रजम् ।
उपरुन्धन्तु दाशार्हाः पुरी माहिष्मती द्विषः॥ ६४॥ निरुद्धति ॥ किंच दाशार्हा यादवाः वीवधो धान्यादिप्राप्तिः, आसारः सुहृदलम् , प्रसारस्तृणकाष्ठादेः प्रवेशः । 'धान्यादेवधः प्राप्तिरासारस्तु सुहृद्धलम् । प्रसारस्तृणकाष्ठादेः प्रवेशः' इति वैजयन्ती । ते निरुद्धा यैस्ते तथोक्ताः, अन्यत्र निरुद्धौ वीवधानां पर्याहारापरनाम्नां स्कन्धवाह्यक्षीराद्याहरणसाधनभारविशेषा. णामासारप्रसारौ प्रवेशनिर्गमौ यैस्ते तथोक्ताः । 'विवधो वीवधो भारे पर्याहाराध्वनोरपि' इति हेमचन्द्रः। व्रजं गोष्टम् । 'बजः स्याद्गोकुलं गोष्ठम्' इति वैजयन्ती । गा इव माहिष्मती पुरी द्विषोऽरीनुपरुन्धन्तु । बजे गा इव माहिप्मत्यामरीनावृण्वन्त्वित्यर्थः । 'दुहियाचिरुधि-' इति द्विकर्मकत्वम् । तत्र पुरीबजावकथितं कर्म, अन्यदीप्सितं कर्म ॥ तर्हि पार्थप्रार्थनायाः का गतिरित्याशक्य, उपेक्षैव गतिरित्याह
यजतां पाण्डवः स्वर्गमवत्विन्द्रस्तपत्विनः ।
वयं हनाम द्विषतः सर्वः स्वार्थ समीहते ॥६५॥ यजतामिति ॥ पाण्डवो युधिष्ठिरो यजतां यागं करोतु । इन्द्रः स्वर्गमवतु रक्षतु । इनोऽर्कः । ‘इनः पत्यौ नृपार्कयोः' इति मेदिनी । तपतु प्रकाशताम् । वयं द्विषोऽरीन्हनाम मारयाम । 'आडुत्तमस्य पिच्च' इत्याडागमः । सर्वत्र प्राप्तकाले लोट । तथाहि—सर्वो जनः स्वार्थ स्वप्रयोजनं समीहतेऽनुसंधत्ते । इन्द्रादिसमानयोगक्षेमो नः पार्थ इत्यर्थः । अर्थान्तरन्यासः ॥
प्राप्यतां विद्युतां संपत्संपर्कादर्करोचिषाम् ।
शस्त्रैर्द्विषच्छिरश्छेदनोच्छलच्छोणितोक्षितैः ॥ ६६ ॥ प्राप्यतामिति ॥ किंच द्विषतां शिरश्छेदेन प्रोच्छलतोद्गच्छता शोणितेनोक्षितैः सिक्तैः शस्त्रैरर्करोचिषां संपर्कात्संबन्धाद्विधुतां संपल्लक्ष्मीः प्राप्यतामिति । निदर्शनालंकारः॥
इति संरम्भिणो वाणीलस्यालेख्यदेवताः ।
सभाभित्तिप्रतिध्वानैर्भयादन्ववदनिव ॥ ६७॥ इतीति ॥ इतीत्थं संरम्भिणः क्षुभितस्य बलभद्रस्य वाणीरालेख्यदेवताश्चित्रलिखितदेवताः सभायाः सदोगृहस्य भित्तीनां प्रतिध्वानैः । प्रतिध्वनिव्याजेनेत्यर्थः । भयादन्ववदन्नन्वमोदयन्निवेत्युत्प्रेक्षा ॥
निशम्य ताः शेषगवीरभिधातुमधोक्षजः । शिष्याय बृहतां पत्युः प्रस्तावमदिशदृशा ॥ ६८॥ शिशु० ५