________________
शिशुपालवधे
निशम्येति ॥ अधः कृतमक्षजमिन्द्रियजं ज्ञानं येन सोऽधोक्षजो हरिः ताः शेषस्य शेषावतारस्य बलभद्रस्य गाः वाचः शेषगवीः । 'गोरतद्धितलुकि' इति टच् । टित्वान्डीप् । निशम्य श्रुत्वा । 'निशाम्यतीति श्रवणे तथा निशमयत्यपि' इति भट्टमल्लः । तत्र शाम्यतेरिदं रूपम् । अन्यथा निशमय्येति स्यात् । अतएव वामनः 'निशम्यनिशमय्यशब्दो प्रकृतिभेदात्' इति । बृहतां वाचां पत्पुर्वृहस्पतेस्तस्य शिष्यायोद्धवायाभिधातुं वक्तुं दृशा दृक्संज्ञया प्रस्तावमवसरमदिशदतिसृष्टवान् । 'प्रस्तावः स्यादवसरः' इत्यमरः ॥
भारतीमाहितभरामथानुद्धतमुद्धवः ।
तथ्यामुतथ्यानुजवजगादाग्रे गदाग्रजम् ॥ ६९॥ भारतीमिति ॥ अथ कृष्णानुज्ञानन्तरमुद्धवः आहितो भरोऽर्थगौरवं यस्यां सा तां तथ्यां यथार्था भारती वाचम् । अनुद्धतमगर्वितं यथा तथा गदस्याग्रज कृष्णं अग्रे पुरत इति प्रागल्भ्योक्तिः । उतथ्यस्य महर्षेरनुजो बृहस्पतिः। 'उतथ्यावरजो जीवः' इति विश्वः । तद्वत्तेन तुल्यं जगाद। तेन तुल्यं क्रिया चेद्वतिः' इति वतिः । तद्धितगेयमुपमा ॥ किं जगादेत्याह
संप्रत्यसांप्रतं वक्तुमुक्ते मुसलपाणिना ।
निर्धारितेऽथै लेखेन खलूक्त्वा खलु वाचिकम् ॥ ७० ॥ संप्रतीति ॥ संप्रति मुसलपाणिना बलभद्रेण । केवलं शूरेणेति ध्वनिः । उक्ते सति वक्तुमसांप्रतमयुक्तम् । साधूक्तत्वादभ्याससमानयोगक्षेमप्रसङ्गादिति "ध्वनिः । सांप्रतशब्दस्यार्थित्वात्तद्योगे 'शकष-' इत्यादिना तुमुन् । तथाहि लेख्येन पत्रेणार्थे वाच्ये निर्धारिते निर्णीते सति वाचिकं व्याहृतार्था वाचम् । संदेशवचनमित्यर्थः । 'संदेशवाग्वाचिकं स्यात्' इत्यमरः । 'वाचो व्याहृतार्थायाम्' इति ठक् । उक्त्वा खलु । न वाच्यं खल्वित्यर्थः । खलुरायः प्रतिषेधे, अन्यो वाक्यालंकारे, 'निषेधवाक्यालंकारजिज्ञासानुनये खलु' इत्युभयत्राप्यमरः । 'अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा' इति क्त्वाप्रत्ययः । इह 'न पादादौ खल्वादयः' इति निषेधस्योद्वेजकाभिप्रायत्वात् नअर्थखलुशब्दस्यानुढेजकत्वात् नवदेव पादादौ प्रयोगो न दुष्यतीत्यनुसंधेयम् । लिखिताथै वाचिकमिव बलोक्ते मदुक्तिरनवकाशेति वाक्यार्थप्रतिबिम्बकरणात् । स्पष्टस्तावदृष्टान्तः । स्तुतिव्याजेन निन्दावगमायाजस्तुतिश्च । लक्षणं चाग्रे वक्ष्यते ॥ तर्हि किं तूष्णीभूतेन भाव्यं, नेत्याह
तथापि यन्मय्यपि ते गुरुरित्यस्ति गौरवम् ।
तत्प्रयोजककर्तृत्वमुपैति मम जल्पतः ॥ ७१ ॥ तथापीति ॥ तथापि बलेन निर्णीतेऽपि । ते तव मय्यपि। बलभद्र इत्यपिशब्दार्थः । गुरुरित्येव यद्गौरवमादरः यद्गौरवं जल्पतः जल्पने प्रयोज्यकर्मणो मे