________________
द्वितीयः सर्गः ।
५१
प्रयोजककर्तृत्वं प्रेरकत्वमुपैति । अतो वक्ष्यामीत्यर्थः । नहि पण्डितैः सादरं गृष्टस्य विशेषज्ञस्याज्ञवत्तूष्णींभावो युक्त इति भावः ॥
ननु रामेणैव सर्वं प्रपञ्चेनोक्तम्, संप्रति किं ते वाच्यमस्तीत्याशङ्क्य वृथा पोऽयमिति हृदि निधाय स्तुवन्नाह -
वर्णैः कतिपयैरेव ग्रथितस्य खरैरिव ।
अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता ॥ ७२ ॥ वर्णैरित्यादित्रयेण ॥ कतिपयैः परिमितैर्वर्णैः पञ्चाशतैव मातृकाक्षरैः, कतिपयैः सप्तभिरेव स्वरैर्निषादादिभिर्ग्रथितस्य गुम्फितस्य वाङ्मयस्य शब्दजालस्य । 'एकाचोऽपि नित्यं मयटमिच्छन्ति' इति स्वार्थे मयट् । गीयत इति गेयं तस्य गानस्येव विचित्रता रचनाभेदादनन्ता । अपरिमिता भवतीत्यर्थः । अहो अतस्तेन साधूक्तेऽपि विशेषानन्त्यान्ममापि वक्तव्यमस्तीत्येको भावः । तस्य दुरु क्तत्वान्ममैवास्तीत्यन्यः । प्रत्यवयवमिवोपादानादने कैवेयमुपमा ॥
Tar च्छया कामं प्रकीर्णमभिधीयते । अनुज्झितार्थसंबन्धः प्रबन्धो दुरुदाहरः ।। ७३ ।।
पीति ॥ स्वेच्छया स्वप्रतिभानुसारेण प्रकीर्णमसंगतं बह्वपि कामं यथेष्टमभिधीयते । किंतु, अनुज्झितोऽर्थसंबन्धः पदार्थसंगतिर्यस्मिन्स प्रबन्धः संदर्भः दुरुदाहरो दुर्वचः । हरतेः खलप्रत्ययः । रामेण तु संगतमेवोक्तमिति स्तुतिः, असंगतमेवोक्तमिति निन्दा च गम्यते ॥
दीयसीमपि धनामनल्पगुणकल्पिताम् ।
प्रसारयन्ति कुशलाश्चित्रां वाचं पटीमिव ॥ ७४ ॥
म्रदीयसीमिति ॥ कुशला वक्तारो प्रदीयसीमतिसुकुमाराक्षरां, श्लक्ष्णतरां च तथापि घनामर्थगुर्वीम्, अन्यत्र सान्द्राम् । कदलीदलकल्पामित्यर्थः । अनल्पैर्बहुभिर्गुणैः श्लेषादिभिः, तन्तुभिश्च कल्पितां रचितां, निर्मितां च चित्रां शब्दादिविचित्रां, विचित्ररूपां च वाचं पटीमिव शाटीमिव प्रसारयन्ति । रामवामप्येवंविधेति स्तुतिः, रामवाक्तु नैवंविधेति निन्दा च गम्यते । अत्र श्लेषस्य शुद्धविषयासंभवेन सर्वालंकारबाधकत्वादुपमाप्रति भोत्थापितः प्रकृताप्रकृतश्लेषोऽयमित्यलंकारसर्वस्वकारः । एवं च पूर्णोपमाया निर्विषयत्वप्रसङ्गाच्छ्रेषप्रतिभोत्था-पितेयमुपमैवेत्यन्ये ॥
अथोद्धवः स्वसिद्धान्तं वर्णयिष्यन्स्तुत्या गर्व परिहरन्हरिमभिमुखीकरोतिविशेषविदुषः शास्त्रं यत्तवद्राह्यते पुरः ।
हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा ॥ ७५ ॥
विशेषेति ॥ विशेषानवान्तरभेदान्वेत्तीति विशेषविद्वान् तस्य विशेषविदुषो विशेषज्ञस्य । गतिगम्यादिपाठाद्वितीयासमासः । तव पुरोऽग्रे शास्त्रं नीतिशा